रस्यालङ्कारस्य वा प्रकाशने चारुत्वोत्कर्षनिबन्धने सति प्राधान्येऽर्थशक्त्यु. द्भवानुरणरूपव्यङ्गयो ध्वनिरवगन्तव्यः ।
एवं ध्वनेः प्रभेदान् प्रतिपाद्य तदाभासविवेकं कर्तुमुच्यते-
यत्र प्रतीयमानोऽर्थः प्रम्लिष्टत्वेन भासते । |
द्विविधोऽपि प्रतीयमानः स्फुटोऽस्फुटश्च। तत्र य एव स्फुटः शब्द शक्त्यार्थशक्त्या वा प्रकाशते स एव ध्वनेर्मार्गो नेतरः । स्फुटोऽपि योऽ. भिधेयस्याङ्गत्वेन प्रतीयमानोऽवभासते सोऽस्यानुरणनरूपव्यङ्गयस्य ध्वने. रगोचरः । यथा-
कमलाअरा णँ मलिआ हंसा उड्डाविआ ण अ पिउच्छा। |
लोचनम्
स्य व्यञ्जकस्य च प्रत्येक वस्त्वलङ्काररूपतया द्विप्रकारत्वाच्चतुर्विधोऽयमथशक्त्यु- द्भव इति तात्पर्यम् ॥ २९, ३० ॥
एवमिति । अविवक्षितवाच्यो विवक्षितान्यपरवाच्य इति द्वौ मूलभेदौ । आद्य- स्य द्वौ भेदौ-अत्यन्ततिरस्कृतवाच्योऽर्थान्तरसंक्रमितवाच्यश्च । द्वितीयस्य द्वौ भेदौ- अलक्ष्य क्रमोऽनुरणनरूपश्च । प्रथमोऽनन्तभेदः । द्वितीयो द्विविधः-शब्दशक्तिमूलोऽ र्थशक्तिमूलश्च। पश्चिमस्त्रिविधः-कविप्रौढोक्तिकृतशरीरः कविनिबद्धवक्तृप्रौढोक्ति- कृतशरीरः स्वतस्सम्भवी च । ते च प्रत्येकं व्यङ्गयव्यञ्जकयोरुक्तभेदनयेन चतुर्धेति द्वादशविधोऽर्थशक्तिमूलः । आद्याश्चत्वारो भेदा इति षोडश मुख्यभेदाः । ते च पदवा. क्यप्रकाशत्वेन प्रत्येक द्विविधा वक्ष्यन्ते । अलक्ष्यक्रमस्य तु वर्णपदवाक्यसङ्घटनाप्रब- न्धप्रकाश्यत्वेन पञ्चत्रिंशद्भेदाः । तदाभासेभ्यो ध्वन्याभासेभ्यो विवेको विभागः । अ-
बालप्रिया
सुबोधायोक्तान वक्ष्यमाणांश्च ध्वनिप्रभेदान् सङ्कलय्याह-अविवक्षितवाच्य. इत्यादिना पञ्चत्रिंशभेदा इत्यन्तेन । उक्तभेदेति । वस्त्वलङ्कारभेदेत्यर्थः । आद्याश्चत्वार इति । अत्यन्ततिरस्कृतवाच्योऽर्थान्तरसङ्क्रमितवाच्योऽलक्ष्य- क्रमव्यङ्गयः शब्दशक्तिमूलानुरणनरूपश्चेति चत्वार इत्यर्थः । द्विविधा वक्ष्यन्त इति । तथाच द्वात्रिंशदित्यर्थः। वर्णेत्यादि । अत्र पदवाक्यप्रकाशत्वेन भेदस्योक्तत्वाद- नेन वर्णसङ्घटनाप्रबन्धप्रकाश्यत्वेन यद्भेदत्रयं तदेव विवक्षितं, तथाच पञ्चत्रिंशद्भेदाः। तदाभासभ्य इत्यादि । ध्वनेरित्यस्यात्रापि सम्बन्धो बोध्यः। यत्रेत्यादिपूर्वाधस्य वि- वरणम् । वृत्तौ द्विविधोऽपीत्यादि। प्रतीयमानःस्फुटः अस्फुटश्च द्विविधोऽपि भवतीत्य-
३६ ध्व०