पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८०
सटीकलोचनोपेतध्वन्यालोके


 यस्मातत्र तथाविधव्यङ्गयालङ्कारपरत्वेनैव काव्यं प्रवृत्तम् । अन्यथा तु तद्वाक्यमात्रमेव स्यात् । तासामेवालङ्कृतीनाम्-

अलङ्कारान्तरव्यङ्ग्यभावे

 पुनः

                    ध्वन्यङ्गता भवेत् ।

चारुत्वोत्कर्षतो व्यङ्गयप्राधान्यं यदि लक्ष्यते ॥ ३० ॥

 उक्तं ह्येतत्-'चारुत्वोत्कर्षनिबन्धना वाच्यव्यङ्गययोः प्राधान्यवि.

वक्षा' इति । वस्तुमात्रव्यङ्गयत्वे चालङ्काराणामनन्तरोपदर्शितेभ्य एवोदाह- रणेभ्यो विषय उन्नेयः । तदेवमर्थमात्रेणालङ्कारविशेषरूपेण वार्थेनार्थान्त.


लोचनम्

व्यापारस्य वृत्तिस्तदाश्रयालङ्कारप्रवणा यतः । अन्यथेति । यदि न तत्परत्वमित्यर्थः । तेन तत्र गुणीभूतव्यङ्गयता नैव शङ्कयेति तात्पर्यम् । तासामेवालङ्कृतीनामित्ययं पठि- ष्यमाणकारिकोपस्कारः । पुनरिति कारिकामध्य उपस्कारः । ध्वन्यङ्गतेति । ध्वनिभे. दत्वमित्यर्थः । व्यङ्गयप्राधान्यमिति । अत्र हेतुः-चारुत्वोत्कर्षत इति । यदी- ति। तदप्राधान्ये तु वाच्यालङ्कार एवं प्रधानमिति गुणीभूतव्यङ्ग्यतेति भावः । नन्वलङ्कारो वस्तुना व्यज्यते अलङ्कारान्तरेण च व्यज्यत इत्यत्रोदाहरणानि किमिति न दर्शितानीत्याशङ्कयाह-वस्त्विति । एतत्संक्षिप्योपसंहरति-तदेवमिति । व्यङ्गय-

बालप्रिया

श्रयेति कारिकापाठाभिप्रायेण व्याचष्टे-काव्यस्येत्यादि । कविव्यापारस्येति । शब्दार्थरूपस्येत्यर्थः । वृत्तिरिति । स्थितिरित्यर्थः । सा अलङ्कृतिराश्रयो यस्या इत्यभिप्रायेण व्याचष्टे अलङ्कारेत्यादि । यदि न तत्परत्वमिति । व्यङ्गयालङ्का- रपरत्वं न भवति यदीत्यर्थः । वृत्तौ 'तद्वाक्यमात्रमेव स्यादिति । 'तत्' काव्यत्वेना- भिमतम् । 'वाक्यमात्रमेव' न तु काव्यात्मकमित्यर्थः । अतः तत्परत्वेन भाव्यं, तथाच ध्वन्यङ्गत्वमेवेति भावः । एतद्भावार्थ दर्शयति लोचने-तेनेत्यादि । तासामित्यस्यालङ्कारान्तरव्यङ्गयभाव इत्यनेनापि सम्बन्धः। तासामित्यस्यालङ्कृती- नामित्यर्थश्चेत्याशयेन वृत्तौ 'तासामेवालङ्कृतीनां इत्युक्तमित्याह-तासामेवेत्यादि । पठिष्येत्यादि । वक्ष्यमाणकारिकयाऽपि सम्बन्धमासाद्य कासामित्याकाङ्क्षानिवर्तकत्वे- नोपकारकारीत्यर्थः । प्रकृतानुगुण्येन व्याचष्टे-ध्वनिभेदत्वमिति । ध्वन्यवान्तरप्रकार- त्वमित्यर्थः।वाच्यालङ्कार एवेति । दीपकादिरेवेत्यर्थः । कारिकायामलङ्कारान्तरव्य- ङ्ग्यभावे इत्यस्य अलङ्कारान्तरेण व्यङ्ग्यत्वे सतीत्यर्थः। तदेवमित्यादिग्रन्थस्य सारार्थमाह- व्यङ्गयस्येत्यादि ।