पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७९
द्वितीयोद्योतः


क्षायामेव सत्यां ध्वनावन्तःपातः । इतरथा तु गुणीभूतव्यञ्गयत्वं प्रतिपा- दयिष्यते । अङ्गित्वेन व्यङ्ग्यतायामपि ।

 अलङ्काराणां द्वयी गतिः- कदाचिद्वस्तुमात्रेण व्यज्यन्ते, कदाचिदल. ङ्कारेण । तत्र-

व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तथा।
ध्रुवं ध्वन्यङ्गन्ता तासां

 अत्र हेतु:-

                    काव्यत्तिस्तदाश्रया ॥ २९ ॥

लोचनम्

सुकवीनामयत्नसम्पाद्यतया । यदि वा वाच्यत्वे सति येषां शरीरतापादनमपि न व्यव- स्थितं दुर्घटमिति यावत् । तेऽलङ्कारा ध्वनेेर्व्यापारस्य काव्यस्य वाङ्गतां व्यङ्गयरूप. तया गताः सन्तः परां दुर्लभां छायां कान्तिमात्मरूपता यान्ति । एतदुक्तं भवति- सुकविर्विदग्धपुरन्ध्रीवद्भूषणं यद्यपि श्लिष्टं योजयति, तथापि शरीरतापत्तिरेवास्य कष्टसम्पाद्या कुडकुमपीतिकाया इव । आत्मतायास्तु का सम्भावनापि । एवम्भूता चेयं व्यङ्ग्यता या अप्रधानभूतापि वाच्यमात्रालङ्कारेभ्य उत्कर्षमलङ्काराणां वितरति । बा- लक्रीडायामपि राजत्वमिवेत्यमुमर्थ मनसि कृत्वाह-इतरथा त्विति ॥ २८ ॥ तत्रेति । द्वय्यां गतौ सत्याम् । अत्र हेतुरित्ययं वृत्तिग्रन्थः। काव्यस्य कवि-

बालप्रिया

सुकवीनामित्यादि। वाच्यत्वे इति सप्तम्यन्तम् । नेति पृथक् पदमित्यन्य- थाऽपि व्याचष्टे-यदि वेत्यादि । 'ध्वन्यङ्गतामित्यत्र ध्वनिशब्दं द्वेधा व्याचष्टे- व्यापारस्येत्यादि । कथमङ्गत्वमित्यत्राह-व्यङ्ग्यतयेति । यदि वेत्युक्तव्या- ख्यानानुरोधेन भावार्थमाह-अतदुक्तमित्यादि । भूषणमिति । उपमादिकं कुङ्कुमादिकं चेत्यर्थः । श्लिष्यमिति । सक्तमित्यर्थः । अतिश्लिष्टमिति च पाठः । शररीतापत्तिः शरीरत्वसम्पादनम् । अस्येति । उपमादेर्भूषणस्येत्यर्थः।कुङ्कु- मेति । कुङ्कुमयुक्तानुलेपनविशेषः कुङ्कुमपीतिका तस्या इवेत्यर्थः । आत्मताया इति । आत्मत्वसम्पादनस्येत्यर्थः । अस्येत्यनुषङ्गः । का सम्भावनाऽपीति । आत्म. त्यसम्पादनमतिकष्टसम्पाद्यमित्यर्थः । इतरथेत्यादिग्रन्थमवतारयति-एवंभूतेत्यादि । इयं व्यङ्गयता एवम्भूता चेत्यन्वयः। कथम्भूतेत्यत्राह-येत्यादि । राजत्वमिवेति । बालान्तरेभ्यो राजबालस्येति शेषः ॥ २८ ॥

 वृत्तिग्रन्थ इति । न तु कारिकांश इति भावः । “काव्यवृत्तिस्तदा-