पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७८
सटीकलोचनोपेतध्वन्यालोके


योजनीयाः।

 एवमलङ्कारध्वनिमार्गं व्युत्पाद्य तस्य प्रयोजनवत्तां ख्यापयितुमिद- मुच्यते-

शरीरीकरणं येषां वाच्यत्वे न व्यवस्थितम् ।
तेऽलङ्काराः परां छायां यान्ति ध्वन्यङ्गतां गतः ॥ २० ॥

 ध्वन्यङ्गता चोभाभ्यां प्रकाराभ्यां व्यञ्जकत्वेन व्यङ्गयत्वेन च । तत्रेह

प्रकरणाव्द्यङ्गयत्वेनेत्यवगन्तव्यम् । व्यङ्ग्यत्वेऽप्यलकाराणां प्रधान्यविव.


लोचनम्

त्वयि लोकोत्तरेण वपुषा सम्भूय स्थिता इत्यतिशयोक्तिर्ध्वन्यते । आपातेऽपि विकार- कारणमित्यास्वादपरम्पराक्रिययापि विना विकारात्मनः फलस्य सम्पत्तिरिति विभाव- नाध्वनिरपि । विभ्रममधोर्धुर्यमिति तुल्ययोगिताध्वनिरपि । एवं सर्वालङ्काराणां ध्वन्य- मानत्वमस्तीति मन्तव्यम् । न तु यथा कैश्चिन्नियतविषयीकृतम् । यथायोगमि- ति । क्वचिदलङ्कारः क्वचिद्वस्तु व्यञ्जकमित्यर्थो योजनीय इति ॥ २७ ॥

 ननूक्तास्तावच्चिरन्तनैरलङ्कारास्तेषां तु भवता यदि व्यङ्गयत्वं प्रदर्शितं किमिय- तेत्याशङ्कयाह-एवमित्यादि । येषामलङ्काराणां वाच्यत्वेन शरीरीकरणं शरीरभूता- त्प्रस्तुतादर्थान्तरभूततया अशरीराणां कटकादिस्थानीयानां शरीरतापादनं व्यवस्थितं

बालप्रिया

कथनम् । ते मधुमदनासवाः । लोकात्तरेण वपुषेति । नेत्ररूपेण भ्रूरूपेणाधररस- रूपेण च शरीरेणेत्यर्थः । मदनधनुषो भ्रूरूपेण स्थित्या मदनस्य स्थितिः सिध्यतीति बोध्यम् । इतीति । इतिवक्तृकामुकवाक्यार्थप्रतीत्येत्यर्थः । अतिशयोक्तिरिति । नेत्रादौ वसन्ताद्यभेदप्रतीत्या भेदे अभेदरूपातिशयोक्तिरित्यर्थः । तुल्ययोगितेति । दृग्द्वयस्य मधोश्च साम्यविवक्षया दृशौ विभ्रममधोधुर्य वपुरित्युक्त्या "न्यूनस्यापि विशि- ष्टेने त्यादिना भामहादिलक्षिता तुल्ययोगितेत्यर्थः । 'एवमन्येऽप्यलकारा' इति बहुवच- नलब्धमर्थमाह-एवमित्यादि । गम्यं व्यवच्छेद्यमाह-न त्वित्यादि । न त्विति । तथेति शेषः । नियतेति । नियतः नियमितः विषयः अलङ्कारविशेषरूपाश्रयो यस्य तत्कृतमित्यर्थः । ध्यन्यमानत्वमित्यनुषज्यते ॥ २७ ॥

 किमियतेति । अलङ्काराणां व्यङ्गयत्वप्रदर्शनेन किं फलमित्यर्थः । आहेति । शरीरीत्यादिना तत्फलं दर्शयतीत्यर्थः । कारिकां व्याचष्टे-येषामित्यादि । वाच्य- त्वेनेति हेतौ तृतीया । च्विप्रत्ययार्थं दर्शयन् व्याचष्टे-शरीरभूतादित्यादि । शरीरतापादनमिति । शरीरत्वसम्पादनमित्यर्थः । व्यवस्थितत्वे गम्यं हेतुमाह- -