पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७७
द्वितीयोद्योतः


लोचनम्

तामपि व्यनक्तीति हेत्वलङ्कारध्वनिरपि । त्वदीयकुचशोभा मृगाङ्कशोभा च सह मदन- मुद्दीपयत इति सहोक्तिध्वनिरपि। त्वत्कुचसदृशश्चन्द्रश्चन्द्रसमस्त्वत्कुचागः' इत्यर्थ- प्रतीतेरुपमेयोपमाध्वनिरपि । एवमन्येऽप्यत्र भेदाः शक्योत्प्रेक्षाः । महाकविवाचो. ऽस्याः कामधेनुत्वात् । यतः-

हेलापि कस्यचिदचिन्त्यफलप्रसूत्यै कस्यापि नालमणवेऽपि फलाय यत्नः ।
दिग्दन्तिरोमचलनं धरणीं धुनोति खात्सम्पतन्नपि लतां चलयेन्न भृङ्गः ॥
एषां तु भेदानां संसृष्टित्वं सङ्करत्वं च यथायोगं चिन्त्यम् । अतिशयोक्तिध्वनि-

र्यथा ममैव-

केलोकन्दलितस्य विभ्रममधोर्धुर्य वपुस्ते दृशौ
भङ्गीभङ्गुरकामकार्मुकमिदं भ्रूनर्मकर्मक्रमः ।
आपातेऽपि विकारकारणमहो वक्त्राम्बुजन्मासवः
सत्यं सुन्दरि वेधसस्त्रिजगतीसारस्त्वमेकाकृतिः ॥

 अत्र हि मधुमासमदनासवानां त्रैलोक्ये सुभगतान्योन्यं परिपोषकत्वेन । ते तु

बालप्रिया

 हेलेति । हेला लीला । यत्नः बुद्धिपूर्वको व्यापारः । वाक्यद्वये भवतीति शेषः। उक्तं सामान्य विशेषेण समर्थयति-दिग्दन्तीत्यादि। दिग्दन्तिनोऽङ्गचलनमिति च पाठः । एषां त्वित्यादि । अपह्नवेन सहेतरेषां संसृष्टिः, ससन्देहप्रतिवस्तूपमोपमेयो. पमानामेकवाक्यानुप्रवेशसङ्कर इत्यादिकं चिन्त्यमित्यर्थः ।

 केलीति । हे सुन्दरि ! ते तव दृशो केलीविलासिजनस्य क्रीडा तस्याः कन्दलं नवाकरः ईषदाविर्भाव इति यावत् । तदस्य सञ्जातमिति केलीकन्दलितः, तस्य अचि. राविर्भूतस्येत्यर्थः । विभ्रमः स्त्रीणां शृङ्गारचेष्टा तत्कारी विभ्रमः शोभा, तच्छाली वा यो मधुर्वसन्तः तस्य धुरं कामोद्दीपनादिभारं वहतीति धुर्यम् । वपुः स्त इति शेषः । त्वदीयं नेत्रद्वितयमचिराविर्भूतस्य वसन्तस्य कामोद्दीपनादिकार्यकारि शरीरं भवती- त्यर्थः । तथा ते इदमित्याद्येकं पदम् । अयमनुभवैकगोचरो भ्रुवोर्नर्मकर्मणः लीलायाः क्रमः क्रमिकलीलाविशिष्टभ्रूयुग्ममित्यर्थः । भङ्गी रचनाविशेषः, तया हेतुना भङ्गुरं वक्रं, यद्वा- -भङ्गीयुक्तं वक्रं च यत् कामस्य कार्मुकं क्रमिककर्मविशिष्टं धनुः तद्भवति । यद्वा-इदमिति भिन्नं पदं कार्मुकविशेषणं, क्रमिककर्मविशिष्टमिति तदर्थः । तथा ते वक्त्राम्बुजन्मनि मुखपद्मे य आसवः मद्यविशेषः । अत्रासवत्वेनाधररस. स्याध्यवसायः। आपातेऽपि किञ्चिदास्वादेऽपि । विकाराणां सम्मोहानन्दादिरू- पचित्तविकाराणां कारणं भवति । अहो इदमद्भुतम् । अतः त्वमेका वेधसः कृतिः सृष्टिः त्रिजगतीसारः त्रैलोक्यसारभूता भवति । सत्यं निश्चितम् । अत्र हीत्यस्य ध्वन्यत इत्यादिभिः सम्बन्धः । पोषकत्वेनेत्यन्तं हेतुवचनम् । ते इत्यादिव्यङ्गय-