पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७६
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

विच्छेदानलदीपितोत्कवनिताचेतोधिवासोद्भवं
 सन्तापं विनिनीपुरेष विततैरङ्गैर्नताङ्गि स्मरः ॥

 अत्र चन्द्रमण्डलमध्यवर्तिनो लक्ष्मणो वियोगाग्निपरिचितवनिताहृदयोदितप्लोष. मलीमसच्छविमन्मथाकारतयापह्ण्वो ध्वन्यते । अत्रैव ससन्देहध्वनिः यतश्चन्द्रवर्तिन- स्तस्य नामापि न गृहीतम् । अपि तु गौराङ्गीस्तनाभोगस्थानीये चन्द्रमसि कालागुरुपत्र- भङ्गविच्छित्यास्पदत्वेन यः सारतामुत्कृष्टतामाचरतीति तन्न जानीमः किमेतद्वस्त्विति ससन्देहोऽपि ध्वन्यते । पूर्वमनङ्गीकृतप्रणयामनुतप्तां विरहोत्कण्ठितां वल्लभागमन- प्रतीक्षापरत्वेन कृतप्रसाधनादिविधितया वासकसज्जीभूतां पूर्णचन्द्रोदयावसरे दूतीमु- खानीतः प्रियतमस्त्वदीयकुचकलशन्यस्तकालागुरुपत्रभङ्गरचना मन्मथोद्दीपनकारिणीति चाटुकं कुर्वाणश्चन्द्रवर्तिनी चेयं कुवलयदलश्यामलकान्तिरेवमेव करोतीति प्रतिवस्तूप- माध्वनिरपि । सुधाधामनीति चन्द्रपर्यायतयोपात्तमपि पदं सन्तापं विनिनीषुरित्यत्र हेतु.

बालप्रिया

एष इति । य इत्यस्य प्रतिनिर्देशः स इत्यर्थः । विच्छेदः प्रियतमविरह एवानलो. ऽग्निः, तेन दीपितानि यानि उत्कानामुत्कण्ठितानां वनितानां चेतांसि तदधिवासेन उद्भवो यस्य तम् । सन्तापं विनिनीषुः विनेतुं शमयितुमिच्छुरिति हेतुगर्भम् । वित- तैरिति । प्रसारितैरित्यर्थः । अङ्गैरुपलक्षितः स्मरः भवतीत्यन्वयः । ध्वनि दर्शयति- अत्रेत्यादिना। अपह्नव इति। नायमङ्कः, किन्तु तथाविधो मन्मथ इत्यपह्णव इत्यर्थः । यत इत्याचाचरतीत्यन्तं व्याख्यातृवचनम् । तस्येति । लक्ष्मण इत्यर्थः । न गृही. तमिति । विशेषतो न निर्दिष्टमित्यर्थः । अपि त्वित्यादि । गृहीतमित्यनुषज्यते । अपि तु इति गृहीतमिति सम्बन्धः । एवं निर्दिष्टमित्यर्थः । गौराङ्गीत्यादि । आभो- गविशिष्टगौराङ्गीस्तनतुल्येत्यर्थः । रचनावासेत्यस्य विवरणम्-विच्छित्त्यास्पदत्वे. नेति । आचरतीति । आवहतीत्यर्थः । फलितार्थकथनमेतत् । सारः उत्कृष्ट इवाच- रति सारो भवति इति वा विग्रहः । तदिति । तथा निर्देशादित्यर्थः । न जानीम इत्या- दि सन्देहाकारकथनम् । इतीति । उक्तानध्यवसायात्मकवक्तृनायकगतसंशयप्रतीतेरि- त्यर्थः । ससन्देहः ससन्देहालङ्कारः । अपीति समुच्चये । पूर्वमित्यादि । प्रणयः प्रियतमस्य प्रार्थना । अनुतप्तामिति । पश्चात्तापवतीमित्यर्थः । भूतामिति । नायि- कामिति शेषः । चाटुकं कुर्वाण इत्यनेनास्य सम्बन्धः । त्वदीयेत्यादि चाटुवचनम् । एवमेव करोतीति । मन्मथोडद्दीपनकारिणीत्यर्थः । इतिप्रतिवस्तूपमाध्वनिरिति । त्वदीयकुचकलशन्यस्त कालागरुपत्रभङ्गरचनामन्मथोद्दीपनकारिणो चन्द्रवर्तिनीयं कुवल. यदलश्यामला कान्तिश्चैवमेव करोतीति वक्तृनायकचाटुवाक्यार्थस्य प्रतीत्या प्रतिवस्तू- पमाया ध्वनिरित्यर्थः । हेतुतामिति । सुधाधामस्वरूपयोगार्थस्येति शेषः । शोभा- भिः सह उद्दीपयति इति च पाठः ।