पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७५
द्वितीयोद्द्योतः


लोचनम्

प्रस्तुतत्वमेव । न चामन्त्रणादप्रस्तुतत्वावगतिः, प्रत्युतामन्त्रणं तस्या मौग्ध्यविजृम्भि- तमिति अभिधया तावन्नाप्रस्तुतप्रशंसा समाप्या। समाप्तायां पुनरभिधायां वाच्यार्थब- लादन्यापदेशता ध्वन्यते । यत्सौभाग्याभिमानपूर्णा सुकुमारपरिमलमालतीकुसुमसदृशी कुलवधूर्निर्व्याजप्रेमपरतया कृतकवैदग्ध्यलब्धप्रसिद्धयतिशयानि शम्भलीकण्टकव्या. प्तानि दूरामोदकेतकीवनस्थानीयानि वेश्याकुलानीतश्चेतश्च चञ्चूर्यमाणं प्रियतममुपाल- भते । अपह्रुतिध्वनिर्यथास्मदुपाध्यायभट्टेन्दुराजस्य-

यः कालागुरुपत्रभङ्गरचनावासैकसारायते
गौरागोकुचकुम्भभूरिसुभगाभोगे सुधाधामनि ।

बालप्रिया

प्रस्तुतत्वमेवेत्येवकारेणाप्रस्तुतत्वव्यवच्छेदः । शङ्कते--न चेत्यादि । आमन्त्रणा. दिति । भृङ्गस्येत्यनुषङ्गः । अनामन्त्रणीयस्य भ्रमरस्य सम्बोधनादित्यर्थः । अप्रस्तु- तत्वावगतिः अप्रस्तुतत्वस्य बोधः । न चेत्यन्वयः। कुत इत्यत आह-प्रत्युते- त्यादि । तस्याः नायिकायाः यन्मौग्ध्यं मुग्धत्वं "मुग्धा नववयःकामे"त्यादि मुग्धा- लक्षणं, तस्य विजृम्भितं मौग्ध्यहेतुकमिति यावत् । इतीति हेतौ । अभिधया तावदि- त्यादि । भृङ्गवृत्तान्तस्य यद्यप्रस्तुतत्वं भवेत्तदा प्रियतमोपालम्भरूपार्थं एव वाक्यस्य विश्रान्त्या तस्याभिधया समाप्यत्वं भवेत् , प्रकृते भृङ्गवृत्तान्तस्यापि प्रस्तुतत्वसम्भ- वान्मुख्यतया विवक्षितः। प्रियतमोपालम्भरूपार्थोऽभिधया न समाप्य इत्यर्थः । समाप्तायामित्यादि । प्रकरणवशेन भृङ्गतदन्वय्यभिधेयार्थबोधे निष्पन्ने सतीत्यर्थः । वाच्यार्थबलादिति । वाच्यार्थसाम्यबलादित्यर्थः । अन्यापदेशतेति । अर्थान्तर- मित्यर्थः । तदाह-यदित्यादि । सुकुमारः सुन्दरः मुग्धकुलवधूरिति च पाठः । प्रेमेति । प्रियतमविषयक्रप्रेमेत्यर्थः। परतया हेतुना उपालभते इति सम्बन्धः । कृतकेति । कृतकवैदग्ध्येन लब्धः प्रसिद्धयतिशयो यैः तानि । शम्भत्वीति । कण्टकतुल्याभिः कुट्टनोभिर्व्या॑प्तानीत्यर्थः । डाम्भिककण्ट केति च पाठः । दूरेति । दूरव्याप्तामोदानि यानि केतकीवनानि तत्तुल्यानीत्यर्थः । चञ्चूर्यमाणमिति । तत्स- म्भोगाय मुहुश्चरन्तमित्यर्थः ।

 य इति । यः गौराणीकुचकुम्भ इव भूरिः सुभगश्चाभोगो यस्य तस्मिन् । सुधाधा- मनि चन्द्रे कालागरुणा या पत्रभङ्गरचना रचितः पत्रभङ्ग इति यावत् , तद्रूपेण यो वासः, यद्वा-रचनाया आवासः आस्पदत्वं तेन एकेन सारायते । हे नताङ्गि सुन्दरि!


 १. गर्हितं चरन्तमित्यर्थः, 'लुपसदचरजपजभदहदशगृभ्यो भावगर्हाया (पा.

सू., ३. १. २४ ) इत्यनेन धात्वर्थगीयां यविधानात् ।