पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७४
सटीकलोचनोपेतध्वन्यालोके


बलभ्य इति श्लेषप्रतीतिरशब्दाप्यर्थसामर्थ्यान्मुख्यत्वेन वर्तते । यथासङ्ख्यध्वनिर्यथा--

अङ्कुरितः पल्लवितः कोरकितः पुष्पित्तश्च सहकारः ।
अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च हृदि मदनः ।।
अत्र हि यथोद्देशमनूद्देशे यच्चारुत्वमनुरणनरूपं मदनवि-

शेषणभूताङ्कुरितादिशब्दगतं तन्मदनसहकारयोस्तुल्ययोगितासमुच्चयल- क्षणाद्वाच्यादतिरिच्यमानमालक्ष्यते एवमन्येऽप्यलङ्कारा यथायोगं


लोचनम्

पत्तेर्वा तार्किकमीमांसकयोर्न ध्वनिप्रसङ्ग इत्यलं बहुना। तदाह-अशब्दापीति । एव- मन्येऽपीति । सर्वेषामेवार्थालङ्काराणां ध्वन्यमानता दृश्यते । यथा च दीपकध्वनि:----

मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा ।
वज्रमिन्द्रकरविप्रसृतं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ॥

 इत्यत्र बाधिष्टेति गोप्यमानादेव दीपकादत्यन्तस्नेहास्पदत्वप्रतिपत्त्या चारूत्व- निष्पत्तिः । अप्रस्तुतप्रशंसाध्वनिरपि-

ढुण्ढुलन्तो मरिहिसि कण्टअकलिआई केअइवणाइं ।
मालइकुसुमसरिच्छं भमर भमन्तो ण पाविहिसि ॥

 प्रियतमेन साकमुद्याने विहरन्ती काचिन्नायिका भ्रमरमेवमाहेति भृङ्गस्याभिधायां

बालप्रिया

यते । 'अङ्कुरिते' इति सप्तम्यन्तपाठोऽपि पूर्वार्धे दृश्यते । लोचने-यथाचेति । तथा च इति च पाठः । इत्यत्रेत्यस्य दीपकध्वनिरित्यनेनापि सम्बन्धः । दीपकध्वनि विवृणो. ति-बाधिष्ठेत्यादि । बाधिष्ठेति दीपकादिति । मान्वितलुङन्तबाधत्यर्थ- रूपादनलाद्यनेकान्वयिधर्मादित्यर्थः । अत्यन्तेति । लतासहिते वृक्षे वक्तृगतनिरति- शयश्नेहास्पदत्वस्य प्रतीत्येत्यर्थः । चारुत्वनिष्पत्तिरिति । यतस्ततो दीपकध्वनि- रिति सम्बन्धः । अत्र "यश्च निम्बं परशुने त्यादाविव मा भवन्तमनल इत्यत्र धाक्षी- दित्यस्य, पवनो वेत्यादौ भाङ्क्षीरित्यस्य, परशुर्वेत्यादौ भैत्सीदित्यस्य चाध्याहारेण वाच्यार्थनिष्पत्तिर्बोध्या। अप्रस्तुतप्रशंसाध्वनिरपीति । सादृश्यनिमित्तकाप्रस्तुत. प्रशंसाध्वनिरपीत्यर्थः ।

 डुण्ढु इत्यादि । अन्वेषयन्मरिष्यसि कण्टककलितानि केतकीवनानि । मालतीकु- सुमसदृशं भ्रमर भ्रमन्न प्राप्स्यसि ॥ इति छाया । विवृणोति-प्रियतमेनेत्यादि । भ्रम- रमिति । केतक्यभिमुखं चरन्तं कश्चिन्मधुपमित्यर्थः । आहेतीति । वक्तीत्यतो हेतोरित्यर्थः । भृङ्गस्येति । भृङ्गवृत्तान्तस्येत्यर्थः । अभिधायामभिधेयत्वे सति ।