पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७३
द्वितीयोद्द्योतः


लोचनम्

तुल्यार्थोऽपि प्रतीतः। सत्यम् ; सोऽपि श्लेषबलात् । श्लेषश्च नाभिधावृत्तेराक्षिप्तः, अपि त्वर्थसौन्दर्यबलादेवेति सर्वथा ध्वन्यमान एव श्लेषः । अत एव वध्व इव वलभ्य इत्य- भिदधतापि वृत्तिकृतोपमाध्वनिरिति नोक्तम् । श्लेषस्यैवात्र मूलत्वात् । समा इति हि यदि स्पष्टं भवेत्तदोपमाया एव स्पष्टत्वाच्छ्लेषस्तदाक्षिप्तः स्यात् । सममिति निपातोs ञ्जसा सहार्थवृत्तिर्व्य॑ञ्जकत्ववलेनैव क्रियाविशेषणत्वेन शब्दश्लेषतामेति । न च तेन विनाभिधाया अपरिपुष्टता काचित् । अत एव समाप्तायामेवाभिधायां सहृदयैरेव स द्वितीयोऽर्थोऽपृथक्प्रयत्नेनैवावगम्यः । यथोक्तं प्राक्-'शब्दार्थशासनज्ञानमात्रेणैव' इत्यादि । एतच्च सर्वोदाहरणेष्वनुसर्तव्यम् । 'पीनश्चैत्रो दिवा नात्ति' इत्यत्राभिधै- वापर्यवसितेति सैव स्वार्थनिर्वाहायार्थान्तरं शब्दान्तरं वाकर्षतीत्यनुमानस्य श्रुतार्था-

बालप्रिया

सममिति शब्दादित्यर्थः । तुल्यार्थोऽपीति । अपिशब्देन पूर्वोक्तसहार्थस्य समुच्च- यः। सोऽपि तुल्यरूपार्थोऽपि । श्लेषबलादिति । वध्वन्वय्यर्थान्तरसामर्थ्यादि- त्यर्थः। श्लेषश्चेति । अर्थान्तरं चेत्यर्थः । अभिधावृत्तेः अभिधाव्यापाराद्धेतोः । नाक्षिप्तः न प्रतीतः। पदानां वलभीपदसमान विभक्तिकत्वेनाभिधाया वलभ्यन्वय्यर्थे नियमनादिति भावः । अत एवेति । वक्ष्यमाणहेतोरेवेत्यर्थः । समा इतीति । सम- मित्यस्य स्थान इति शेषः । सममित्युक्तौ कुतो न स्पष्टत्वमत आह-सममित्यादि । अञ्जसा झटिति । सहार्थवृत्तिः साहित्यरूपार्थबोधकः । यूनां सवधूकानां सतां वलभीसेवनस्यार्थस्य प्रकृतत्वादिति भावः । क्रियाविशेषणत्वेनेति । सेवनक्रियायाः वर्तमाना इत्यव्याहृतक्रियाया वा विशेषणतयेत्यर्थः । शब्दश्लेषतामेतीति । तुल्य. मित्यर्थान्तरं बोधयतीत्यर्थः । श्लेषध्वनिं स्थापयति-न चेत्यादि । अपृथकप्रयत्नेन प्रयत्नान्तरं विना । प्रसङ्गादाह-पीन इत्यादि । अपर्यवसितेति । दिवाभोजनम- कुर्वतः कुतः पीनत्वमित्याकाङ्क्षासत्त्वेन शान्ताकाङ्क्षस्य बोधस्याजननादिति भावः । स्वार्थेति । पीनत्वादिघटितस्वविषयार्थेत्यर्थः । अर्थान्तरम् रात्रिभोजनम् । शब्दान्तरम् रात्रौ भुङ्क्ते इति शब्दम् । आकर्षति अनुसन्धापयति । अनुमाने. त्यादि । यथासंख्यमत्र बोध्यम् । यथासंख्यध्वनि विवृणोति वृत्तौ-अत्र ही'त्यादि । 'यथोद्देशं' उद्देशक्रममनतिलध्य । 'अनूद्देशे' पश्चान्निर्देशे सति । 'यच्चारुत्वम्' चारुत्वकारि यत् 'अनुरणनरूपं संलक्ष्यक्रमं व्यङ्ग्यम् । 'मदनेति । मदनविशेषणी- भूतो योऽङ्कुरितादिशब्दः सञ्जातेषत्प्रादुर्भावादिः तदर्थः तद्गतं तदाश्रितम् । 'तदि'. ति । चारुत्वकारि यथासंख्यात्मकं व्यङ्गयमित्यर्थः । तत्तु यथाश्रुतक्रमं संख्यासाम्य- मेव । 'मदनसहकारयोरिति । कार्यकारणात्मकयोस्तयोरित्यर्थः । 'तुल्येति । तुल्य- योगिता तुल्यकालसम्बन्धः तद्रूपो यः समुच्चयस्तल्लक्षणादित्यर्थः । 'वाच्यादिति । चकाराभ्यां बोध्यादित्यर्थः । 'अतिरिच्यमानमिति । उत्कृष्टमित्यर्थः । आलक्ष्यते ज्ञा-

     ३५ ध्व०