पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७२
सटीकलोचनोपेतध्वन्यालोके


यथा वा-

त्रासाकुलः परिपतन् परितो निकेतान्
पुंभिर्न कैश्चिदपि धन्विभिरवबन्धि ।
तस्थौ तथापि न मृगः क्वचिदङ्गनाभि-
राकर्णपूर्णनयनेषुहतेक्षणश्रीः ।।

शब्दार्थव्यवहारे च प्रसिद्धिरेव प्रमाणम् ।

श्लेषध्वनिर्यथा--

रम्या इति प्राप्तवतीः पताकाः रागं विविक्ता इति वर्धयन्तीः ।
यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ।।
अत्र वधूमिः सह वलभीरसेवन्तेति वाक्यार्थप्रतीतेरनन्तरं वध्व इव


लोचनम्

उदाहरणान्तरमाह-यथा वेति । परितः सर्वतो निकेतान् परिपतन्नाकमन्न कैश्चिदपि चापपाणिभिरसौ मृगोऽतुबद्धस्तथापि न क्वचित्तस्थौ त्रासचापलयोगात्स्वाभाविकादेव । तत्र चोत्प्रेक्षा ध्वन्यते-अङ्गनाभिराकर्णपूर्णैर्नैत्रशरैर्हता ईक्षणश्रीः सर्वस्वभूता यस्य यतोऽतो न तस्थौ । नन्वेतदप्यसम्बद्धमस्त्वित्याशङ्कयाह-शब्दार्थति । पताका ध्वजपटान् प्राप्तवन्ती । रम्या इति हेतोः। पताकाः प्रसिद्धीः प्राप्तवतीः । किमाकाराः प्रसिद्धीः रम्या इत्येवमाकाराः । विविक्ता जनसङ्खलत्वाभावादित्यतो हेतो रागं सम्भो- गाभिलाषं वर्धयन्तीः । अन्ये तु रागं चित्रशोभामिति । तथा रागमनुरागं वर्धयन्तीः । यतो हेतोः विविक्ता विभक्ताङ्गयो लटभाः याः। नमन्ति वलीकानि छदिपर्यन्तभागा यासु । नमन्त्यो वल्ल्यस्रिवलीलक्षणा यासाम् । सममिति सहेत्यर्थः । ननु समशब्दा-

बालप्रिया

अनुगतः, 'न तस्थावित्यत्र वास्तवो हेतुनासाकुल इत्यनेन दर्शित इत्याह-त्रासे. त्यादि । आकर्णपूर्णैः कर्णपर्यन्तव्याप्तैः आकर्णकृष्टैश्च नेत्रशरैः नेत्राण्येव शरास्तै, अतो न तस्थाविति । उक्ताद्धेतोरेव न स्थितवानित्यर्थः । तथाचात्र हेतूत्प्रेक्षा- ध्वनिरिति भावः। अत्राप्यङ्गनादृष्टिं प्रशंसापरमाकर्णेत्यादिकं स्वरूपकथनमिति. वाक्यार्थनिष्पत्तिरवसेया । एतदपीति । उक्तोदाहरणमपीत्यर्थः । असम्बद्धमिति । उत्प्रेक्षारूपार्थाबोधकमित्यर्थः । वृत्तौ ‘शब्देति । एवमस्यशब्दस्यार्थ इति व्यवहार इत्यर्थः । 'प्रसिद्धिरेव' प्रतिपत्तॄणां प्रतीतिरेव । तथाचोक्तस्थले इवादिशब्दाभावेऽप्यु- त्प्रेक्षारूपार्थस्य सहृदयानां प्रतीतेरसम्बद्धत्वापादानं न युक्तमिति भावः । व्याचष्टे- पत्ताका इत्यादि। अत्राद्योऽर्थो वलभीभिरन्वेति, द्वितीयस्तु वधूभिः । व्याख्यानान्तर. माह-अन्य इति । लटभा इति सुन्दर्य इत्यर्थः । नन्वित्यादि । समशब्दादिति ।