पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७१
द्वितीयोद्द्योतः


दन्यत्रापि तदप्रयोगे तदर्थावगतिदर्शनात् । यथा-

ईसाकलुसस्स वि तुह मुहस्स णं एस पुण्णिमाचन्दो ।
अज्ज सरिसत्तणं पाविऊण अङ्गे विअ ण माइ॥
( ईर्ष्याकलुषस्यापि तव मुखस्य नन्वेष पूर्णिमाचन्द्रः ।
अध सदृशत्वं प्राप्याङ्ग एव न माति ॥ इति छाया)


लोचनम्

देतत् । तदिति । तस्येवादेरप्रयोगेऽपि तस्यार्थस्येत्युत्प्रेक्षारूपस्यावगतेः प्रतीतेर्दर्श. नात् । एतदेवोदाहरति-यथेति । ईर्ष्याकलुषस्यापीषदरुणच्छायाकस्य । यदि तु प्रस- न्नस्य मुखस्य सादृश्यमुद्वहेत्सर्वदा वा तत्किं कुर्यात्त्वन्मुखं त्वेतद्भवतीति मनोरथा- नामप्यपथमिदमित्यपिशब्दस्याभिप्रायः। अङ्गे स्वदेहे न मात्येव दश दिशः पूरयति यतः । अद्येयता कालेनैकं दिवसमात्रमित्यर्थः । अत्र पूर्णचन्द्रेण दिशा पूरणं स्वरस सिद्धमेवमुत्प्रेक्ष्यते ।

 ननु ननुशब्देन वितर्कोत्प्रेक्षारूपमाचक्षाणेनासम्बद्धता निराकृतेति सम्भावयमान

बालप्रिया

पीत्यर्थः । 'अनुरणनरूपा' संलक्ष्यक्रमव्यंग्या। 'लक्ष्यते' ज्ञायते । शङ्कते 'न चेत्यादि ‘एवंविधे विषये' इति चन्दनासक्तेत्यादिस्थल इत्यर्थः । 'असम्बद्धतेति । उत्प्रेक्षायाः वाक्यासम्बद्धतेत्यर्थः । वाक्याप्रतिपाद्यतेति यावत् । समाधत्ते-'गमकत्वादिति । चन्द- नेत्यादिविशेषणस्य प्रतिपत्तृप्रतिभादिसहकारेण बोधकत्वादित्यर्थः । अत्र प्रमाणमाह- 'अन्यत्रापी'त्यादि 'तदप्रयोग' इत्यादिग्रन्थं विवृणोति तस्येत्यादि । ईर्ष्यति । कुपिता नायिका प्रसादयितुमुक्तिः, ईष्याकलुषस्येत्यस्य व्याख्यानम्-ईषदित्यादि । अपिशब्दगम्यमाह-यदि त्वित्यादि । उद्वहेत् कुर्यादित्युभयत्र चन्द्र इति शेषः । अद्येत्यनेन गम्यमाह- सर्वदेति । तत्तदा किं कुर्यादिति । सन्तोषातिशयेन यद्यत् कुर्यात् तन्न जानामीत्यर्थः । एतद्भवतीति । चन्द्रीभवतीत्यर्थः । अङ्ग एवेति छाया। एवकारस्य मातीत्यनेनान्वय इत्याह-नेत्यादि । अत्र गम्यं हेतुमाह-दशदिशः पूरयति यत इति । अद्येति पदं विवृणोति-इयतेत्यादि । ध्वनिं दर्शयति-अत्रे त्यादि । दिशां पूरणमिति । अङ्गेन भात्येवेत्यनेन लब्धं स्वप्रभया दिशं पूरणमि- त्यर्थः । स्वरससिद्धं अस्वाभाविकम् । एवमुत्प्रेक्ष्यते इति । तव मुखस्य सदृशत्वं प्राप्येवेति मुखसादृश्यप्राप्तिहेतुकत्वेनोत्प्रेक्ष्यत इत्यर्थः ।

 उदाहरणान्तरमवतारयति-नन्वित्यादि । ननुशब्देनेति । गाथास्थननुशब्देने- त्यर्थः । सदृशत्वं प्राप्य नन्विति योजनेति भावः । 'त्रासेत्यादि श्लोकं व्याचष्टे- सर्वत इत्यादि । निकेतान् परित इति । नानुबद्ध इति च सम्बन्धः । अनुबद्धः