पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७०
सटीकलोचनोपेतध्वन्यालोके


 अत्र हि मघौ मलयमारुतस्य पथिकमूर्च्छाकारित्वं मन्मथोन्माथदा- यित्वेनैव । तत्तु चन्दनासक्तभुजगनिःश्वासानिलमूर्च्छितत्वेनोत्प्रेक्षितमित्यु. त्प्रेक्षा साक्षादनुक्तापि वाक्यार्थसामर्थ्यादनुरणनरूपा लक्ष्यते । न चैवंविधे विषये इवादिशब्दप्रयोगमन्तरेणासंबद्धतैवेति शक्यते वक्तुम् । गमकत्वा.


लोचनम्

वाच्यालङ्कारो न कश्चित् । उपमानेत्यनेन व्यतिरेकस्य मार्गपरिशुद्धिं करोति । आधि- क्यमिति । व्यतिरेकमित्यर्थः । उत्प्रेक्षितमिति । विषवातेन हि मूर्छितो बृंहित उपचितो मोहं करोति । एकश्च मूर्ञ्छितः पथिकमध्येऽन्येषामपि धैर्यच्युति विद- धन्मूर्च्छा करोतीतीत्युभयथोत्प्रेक्षा । नन्वत्र विशेषणमधिकीभवद्धतुतयैव सङ्गच्छ- ते । ततः किं ? न हि हेतुता परमार्थतः । तथापि तु हेतुता उत्प्रेक्ष्यत इति यत्किञ्चि-

बालप्रिया

मार्गपरिशुद्धिं करोतीति । किञ्चिद्धर्मेण सादृश्यात्मकस्योपमानोपमेयत्वस्य प्रती- तिर्हि व्यतिरेकप्रतीतेरङ्गमिति भावः । वृत्तौ-'चन्दनेति। मलयादिस्थचन्दनवृक्षे- त्यर्थः । 'मघौ' वसन्ते । 'पथिकेत्यादि । विरहिजनमोहकारित्वमित्यर्थः । 'मन्म थेति । कामोद्दीपकत्वेन वस्तुदता हेतुनेत्यर्थः । तत्त्विति । पथिकमूर्च्छाकारित्वन्त्वि- त्यर्थः । 'चन्दनेत्यादि । चन्दनासक्तभुजगनिश्वासानिलमूर्च्छितत्वेन हेतुना उत्प्रेक्षित- मित्यर्थः । एतद्विवृणोति-विषवातेनेत्यादि । विषवातेन विषयुक्तवायुना । प्रकृते निःश्वासानिलस्य भुजगसम्बन्धितया विषसम्पर्को गम्यत इति भावः । “मूर्छामोह- समुच्छ्राययोरिति धातुपाठः । तत्र समुच्छ्रायार्थाप्रायेणा व्याचष्टे-बृंहित इति अस्यैव विवरणम्-उपचित इति । मोहं करोतीति । स्वसंर्गेणान्यस्य मोहावस्था । जनयतीत्यर्थः । गोपार्थाभिप्रायेण व्याचष्टे-एकश्चेत्यादि । एकपदार्थत्वेनात्र पथि- कायमानो वायुर्ग्राह्यः । धैर्यच्युतिं विदधदिति । तद्द्वारेत्यर्थः। मूर्च्छामिति । मोहमित्यर्थः । उभयथोत्प्रेक्षेति विषवातोपचितत्वं मोहावस्थाप्राप्तिश्चेति ये तयोः मलयमारुतस्य पथिकमूर्च्छाकरणेहेतुत्वेनोत्प्रेक्षेत्यर्थः । वृत्तौ 'मूर्च्छितत्वेनोत्प्रेक्षित मिति ग्रन्थस्य उक्तहेतूत्प्रेक्षापरत्वं शङ्कासमाधानाभ्यां दर्शयति-नन्वित्यादि । विशेषणं चन्दनेत्यादिविशेषणम् । हेतुतयैवेति । हेतुगर्भत्वेनैवेत्यर्थः । समाधत्ते-तत इत्यादि । ततः किं हेतुगर्भत्वे सत्यपि किम् । कुत इत्यत आह-न हीत्यादि । तद्वि- शेषणस्य पथिकमूर्च्छाकारित्वे वस्तुतो हेतुत्वं नास्तीत्यर्थः । तथाऽपि त्विति । किं त्वित्यर्थः। हेतुता उत्प्रेक्ष्यत इति । उक्तयोर्द्वयोः हेतुत्वमुत्प्रेक्ष्यते इत्यर्थः । हेतुताऽपि इति च पाठः । तत्पक्षे मलयमारुते तयोर्द्वयोरुत्प्रेक्षाया अपिशब्देन समुच्चयः । चन्द. नासक्तभुजगानां निश्वासानिलैः मूर्च्छितः सम्बद्ध इति स्वरूपकथनमात्रपरं तद्विशेषण- मतो वाच्यार्थनिष्पत्तिर्बोध्या । वृत्तौ 'साक्षादनुक्ताऽपीति । इवादिपदेनाबोधिताऽ