व्यतिरेकध्वनिरप्युभयरूपः सम्भवति । तत्राद्यस्योदाहरणं प्राक्प्रद-
र्शितमेव । द्वितीयस्योदाहरणं यथा--
जाएज्ज वणुदेसे खुज्ज विक्ष पाअवो गडिअवत्तो। |
अत्र हि त्यागैकरसस्य दरिद्रस्य जन्मानभिनन्दनं त्रुटितपत्रकुब्जपा-
दपजन्माभिनन्दनं च साक्षाच्छन्दवाच्यम् । तथाविधादपि पादपात्तादृशस्य पुंस उपमानोपमेयत्वप्रतीतिपूर्वकं शोच्यतायामाधिक्यं तात्पर्येण प्रकाश. यति । उत्प्रेक्षाध्वनिर्यथा-
चन्दनासक्तभुजगनिःश्वासानिलमूर्ञ्छितः । |
लोचनम्
व्यतिरेकध्वनिरपीति । अपिशब्देनार्थान्तरन्यासवदेव द्विप्रकारत्वमाह । प्रागिति । 'खं येऽत्युज्ज्वलयन्ति' इति। 'रक्तस्त्वं नवपल्लवैः' इति । जायेय, वनो- देश एव वनस्यैकान्ते गहने यत्र स्फुटतरबहुवृक्षसम्पत्त्या प्रेक्षतेऽपि न कश्चित् । कुब्ज इति रूपयोटनादावनुपयोगी । गलितपत्र इति । छायामपि न करोति तस्य का पुष्प- फलवत्तेत्यभिप्रायः । तादृशोऽपि कदाचिदाङ्गारिकस्योपयोगी भवेदुल्लुकादीनां वा निवा- सायेति भावः । मानुष इति । सुलभार्थिजन इति भावः। लोक इति । यत्र लोक्यते सोऽर्थिभिस्तेन चार्थिजनो न च किंचिच्छक्यते कर्तुं तन्महद्वैश समिति भावः । अत्र
बालप्रिया
त्येतद्विवृणोति-स्वमित्यादि । खं येऽत्युज्वलयन्ति इति, इत्यस्यानन्तरं 'रक्तस्त्वं नवपल्लवैरिति इति च पाठः क्वचित् दृश्यते, स प्रामादिकः । न तु रक्तस्त्वमि'. त्यादिपाठो वा । कुब्ज एवेति छाया । वनोद्देश इत्यनेनैवकारस्य सम्बन्ध इत्याह- वनेत्यादि । वनोद्देश इत्यस्य विवरणम्-वनस्येत्यादि । गम्यमर्थमाह-यत्र- त्यादि । एवमुपर्यपि बोध्यम् । रूपघटनेति । प्रतिमाद्यकृतिनिर्माणेत्यर्थः । गलित. पत्र इति । त्रुटितत्र इति च पाठः । आङ्गारिकस्येति । अङ्गारोपजीविन इत्यर्थः । अहं कुब्जः गलितपत्रः पादपः पनोद्द्देशे इव जायेय । त्यागैकरसो दरिद्रश्च मानुषे लोके मा जयेय इत्यन्वयः । वृत्तो-'शब्दवाच्यामित्यस्य 'प्रकाशयतीत्यनेनान्वयः ।