पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६८
सटीकलोचनोपेतध्वन्यालोके


 अत्र हि वाच्यविशेषेण सापराधस्यापि बहुज्ञस्य कोपः कर्तुमशक्य इति समर्थकं सामान्यमन्वितमन्यत्तात्पर्येण प्रकाशते ।


लोचनम्

फलपदेऽर्थान्तरन्यासध्वनिः प्राधान्येन । वाक्ये त्वप्रस्तुतप्रशंसा । तत्रापि पुनः फल- पदोपात्तसामर्थ्यसमर्थकभावप्राधान्यमेव भातीत्यर्थान्तरन्यासध्वनिरेवायमिति भावः ।

 हृदये स्थापितो न तु बहिः प्रकटितो मन्युर्यया। अत एवाप्रदर्शितरोषमुखीमपि मां प्रसादयन् हे बहुज्ञ, अपराद्धस्यापि तव न खलु रोषकरणं शक्यम् । अत्र बहुज्ञे- त्यामन्त्रणार्थो विशेषे पर्यवसितः। अनन्तरं तु तदर्थपयोलोचनाद्यत्सामान्यरूपं समर्थकं प्रतीयते तदेव चमत्कारकारि । सा हि खण्डिता सती वैदग्ध्यानुनीता तं प्रत्यसूयां दर्शयन्तीत्थमाह । यः कश्चिद्बहुज्ञो धूर्तः स एवं सापराधोऽपि स्वापराधावकाशमाच्छा- दयतीति मा त्वमात्मनि बहुमानं मिथ्या ग्रहीरिति । अन्वितमिति । विशेषे सामा. न्यस्य संबद्धत्वादिति भावः ।

बालप्रिया

आह-तत्रापीत्यादि । फलेति । फलपदोपात्तौ यो समर्थ्यसमर्थकावर्थो तयो- र्भावस्य प्राधान्यमित्यर्थः । भाति सहृदयानो स्फुरति । अर्थान्तरेत्यादि । 'प्राधान्येन व्यपदेशा भवन्तीति न्यायेनार्थान्तरन्यासध्वनिव्यवहार एवात्रेति भावः ।

 कस्याश्चिदन्तर्गतरोषाया अनाविष्कृतरोषचिह्नायाः कृतागसा वल्लभेन प्रसाद्यमा. नायाः तं प्रतिवचनम्-हृदयेत्यादि । विवृणोति-हृदये स्थापित इत्यादि। प्रसाद यन्निति सम्बुद्ध्यन्तम् । यद्वा-त्वमसीति शेषः। न खलुरोषकरणं शक्यमिति । मयेति शेषः । हे बहुज्ञ | यतस्त्वं मां प्रसादयन्नसि, अतोऽपराद्धमपि त्वां प्रति रोषं कर्तुं न शक्नोमीत्यर्थः । 'बहुज्ञस्येति । बहुज्ञं प्रतीत्यर्थः । 'अशक्य' इति । केनापि न शक्य इत्यर्थः । स्ववैदुग्ध्येन स्वापराधस्य तेन प्रच्छादनादिति भावः । 'इतीति । एवंरूपमित्यर्थः। 'समर्थकं समानमि'त्यस्य विशेषणम् 'अन्वितमन्यदिति च । 'तात्पर्येण प्रकाशत इति । ध्वनतीत्यर्थः । वृत्त्युक्तमेवार्थ विवृणोति–हात्रेत्यादि । विशेषे पर्यवसित इति । नाहमपराधी नाहमन्यां चिन्तयामि, त्वदेकासक्ते मयि प्रसीदेत्याद्यमेकवचनाभिज्ञेति बहुज्ञपदप्रकृतार्थे इत्यर्थः । ध्वनि दर्शयति-अनन्त. रमित्यादि । सामान्यरूपं समर्थकमिति । तत्तु य इत्यादिना वक्ष्यते-सेति । प्रकृता नायिकेत्यर्थः । खण्डितेति । "ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायितेति तल्लक्षणम् । वैदुग्ध्यानुनीता स्ववैदुग्ध्येन प्रसादिता, नायकेनेति शेषः । हेत्यत्राह-य इत्यादि । त्वमात्मनि मिथ्याबहुज्ञानं मा ग्रहीः, यतो बहुज्ञास्तु साप- राधा अपि तत्तद्वचनेन स्वापराधावकाशमाच्छादयन्तीत्यर्थः । अन्वितमित्यनेन सामा- न्यविशेषभावरूपसम्बन्धो विवक्षित इति दर्शयति-विशेष इत्यादि । 'व्यति प्रागि:- कथमा.