पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६७
द्वितीयोद्द्योतः


 पदप्रकाशश्चायं ध्वनिरिति वाक्यस्यार्थान्तरतात्पर्येऽपि सति न विरोधः । द्वितीयस्योदाहरणं यथा-

हिअअट्ठाविअमण्णुं अवरुण्णमुहं हि मं पसाअन्त ।
अवरद्धस्स वि ण हु दे पहुजाणम रोसिउं सक्कम् ।।
(हृदयस्थापितमन्युमपरोषमुखीमपि मां प्रसादयन् ।
अपराद्धस्यापि न खलु ते बहुज्ञ रोषितुं शक्यम् ॥ इति छाया)


लोचनम्

देवायत्ते फले कि क्रियतामेतावत्पुनर्भणामः ।
रक्ताशोकपल्लवाः पल्लवानामन्येषां न सदृशाः ॥

 अशोकस्य फलमाम्रादिवन्नास्ति, किं क्रियतां पल्लवास्त्वतीव हृद्या इतीयताभिधा समाप्तैव । अत्र फलशब्दस्य शक्तिवशात्समर्थकमस्य वस्तुनः पूर्वमेव प्रतीयते । लोकोत्तरजिगीषातदुपायप्रवृत्तस्यापि हि फलं सम्पल्लक्षणं दैवायत्तं कदाचिन्न भवेदपी. त्येवंरूपं सामान्यात्मकम् । नन्वस्य सर्ववाक्यस्याप्रस्तुतप्रशंसा प्राधान्येन व्यङ्गया तत्कथमर्थान्तरन्यासस्य व्यङ्ग्यता, द्वयोर्युगपदेकत्र प्राधान्यायोगादित्याशङ्क्याह- पदप्रकाशेति । सर्वो हि ध्वनिप्रपञ्चः पदप्रकाशो वाक्यप्रकाशश्चेति यक्ष्यते । तत्र

बालप्रिया

अर्थशक्तिमूलविचारे इत्यर्थः । किं क्रियतामित्यन्तस्य विवरणम्-अशोकस्ये. त्यादि । उत्तरार्धविवरणम्-पल्लवा इत्यादि । इयतेति । उक्तार्थमात्रेणेत्यर्थः । ध्वनि विवृणोति-अत्रेत्यादि । अत्र इत्येवंरूपं सामान्यात्मकं अस्य वस्तुनः समर्थ- कं फलशब्दस्य शक्तिवशात् पूर्वमेव प्रतीयत इत्यन्वयः । दैवायत्ते हि फले किं क्रिय- तामित्यत्र फलशब्दः प्रकरणवशात् सस्यरूपमर्थमभिधया वक्ति, ततश्चाशोकस्य फलं नास्तीति प्रस्तुतार्थो लभ्यते, पुनश्च फलशब्दश्शक्तिमूलध्वनिना सम्पदात्मकप्रयोजन- रूपमर्थं बोधयति, ततश्च सर्वेषां सम्पदो देवायत्ताः कदाचिन्न भवेयुरपीति सामा- न्यरूपोऽर्थः पूर्वोक्तप्रस्तुतार्थस्य समर्थको लभ्यत इत्यर्थः । पूर्वमेव प्रतीयते इत्यस्य दैवायत्ते हि फले इत्यस्य श्रवणकाल एव प्रतीयत इत्यर्थः। 'पदप्रकाश' इत्यादिप्रन्थ- मवतारयति-नन्वित्यादि । अप्रस्तुतप्रशंसेति । उपायप्रवृत्तस्यापि सम्पल्लक्षणं फलमलब्धवतः कस्यचिद्राजादेः गुणप्रशंसारूपः प्रस्तुतार्थ इत्यर्थः । प्राधान्येन व्यङ्गयेति । अप्रस्तुतप्रशंसास्थले प्रस्तुतार्थो व्यङ्ग्यः, स क्वचित् प्रधानञ्चेति प्रथमो. द्योते उक्तम् । अर्थान्तरन्यासस्य व्यङ्ग्यतेति । प्राधान्येनेत्यनुषज्यते । कुत इत्यत्राह-द्वयोरित्यादि । भावार्थमाह-सर्वो हीत्यादि । वाक्ये स्वप्रस्तुत. प्रशंसेति । प्राधान्येन व्यङ्ग्येति शेषः । नन्वेवं सति कथमत्र व्यवहार इत्यत