पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६६
सटीकलोचनोपेतध्वन्यालोके


 अत्रातिशयोक्त्या हयग्रीवगुणानामवर्णनीयताप्रतिपादनरूपस्यासा- धारणतद्विशेषप्रकाशनपरस्याक्षेपस्य प्रकाशनम् ।

 अर्थान्तरन्यासध्वनिः शब्दशक्तिमूलानुरणनरूपव्यङ्गयोऽर्थशक्ति मू. लानुरणनरूपव्यङ्ग्यश्च सम्भवति । तत्राद्यस्योदाहरणम्--

देव्वाएतम्मि फले किं कीरह एत्तिसं पुणा भणिमो ।
कङ्किल्लपल्लवाः पल्लवाणँ अण्णाण ण सरिच्छा ।।


लोचनम्

योक्तिर्वाच्यालङ्कारः । प्रतीयमाना चोपमा । सकलरत्नसारतुल्यो बिम्बाधर इति हि तेषां बहुमानो वास्तव एव । अत एव न रूपकध्वनिः । रूपकस्यारोप्यमाणत्वेनावा- स्तवत्वात् । तेषामसुराणां वस्तुवृत्त्यैव सादृश्यं स्फुरति । तदेव च सादृश्यं चमत्कार- हेतुः प्राधान्येन । अतिशयोक्त्येति । वाच्यालङ्काररूपयेत्यर्थः । अवर्णनीयताप्रति- पादनमेवाक्षेपस्य रूपमिष्टप्रतिषेधात्मकत्वात् । तस्य प्राधान्यं विशेषणद्वारेणाह- असाधारणेति ।

 सम्भवतीत्यनेन प्रसनाच्छब्दशक्तिमूलस्यात्र विचार इति दर्शयति ।

बालप्रिया

निमित्ततो वचो यत्तु लोकातिकान्तगोचरम् ।
भेदेऽनन्यत्वमन्यत्र नानात्वं यत्र बध्यते ॥
तथा सम्भाव्यमानार्थनिबन्धेऽतिशयोक्तिगीः ।

 इत्यादिना तल्लक्षणमुक्तमुद्भटादिभिः । रत्नाहरणे एकरसं यद्धृदयं तद्विम्बाधरे निवेशितमिति वस्तुतो भिन्नयोरन्तःकरणवृत्तिविशेषात्मकयोः हृदययोरैक्यमत्र प्रति. पादितमिति भेदे अभेदरूपातिशयोक्तिरित्यर्थः । निवेशनासम्बन्धेऽपि तत्सम्बन्धकथ- नात् सम्बन्धातिशयोक्तिर्वा । प्रतीयमानेति । ध्वन्यमानेत्यर्थः । उक्तं विवृणोति- सकलेत्यादि । समुपादेयत्वादिना रत्नसारतुल्यत्वम् । अत एव वक्ष्यमाणादेव । रूपकस्यारोप्यमाणत्वेनेति । रत्नसाररूपोपमानाभेदस्य कल्पितत्वेनेत्यर्थः । रूपकस्योपचारत्वेनेति च पाठः । सादृश्यमिति । बिम्बाधरे रत्नसारसादृश्यमि- त्यर्थः । वृत्तौ 'अनतिशयोक्त्ये'त्युक्तं तद्विवृणोति-वाच्येत्यादि । वाच्यालङ्कार- रूपयेति । 'योऽम्बुकुम्भैरित्यादिना सम्भाव्यमानार्थनिबन्धनादिति भावः । अवर्ण. नीयताप्रतिपादनमेवेत्यत्र हेतुमाह-इष्टेति । इष्टमत्र वर्णनीयत्वप्रतिपादन मिति भावः । 'असाधारणेत्यादिकथनस्य फलं दर्शयति-तस्येत्यादिविशेषणद्वारेण तस्य प्राधान्यमाहेत्यन्वयः। अत्र 'योऽम्बुकुम्भैरित्याद्यतिशयोक्त्या हयप्रीवगुणानामवण- नीयत्वप्रतिपादनरूपाक्षेपो ध्वन्यते, तेन तद्गुणानामसाधारणो विशेषश्चेति भावः । वृत्तौ 'शब्दशक्ती त्याद्युक्तौ का सङ्गतिरित्यत आह सम्भवतीत्यादि । अत्रेति ।