पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६५
द्वितीयोद्द्योतः


यथा वा ममैव विषमबाणलीलायामसुरपराक्रमणे कामदेवस्य---

तं ताण सिरिसहोअररअणाहरणम्मि हिअअमेक्करसम् ।
बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेन ॥
(तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् ।
बिम्बाघरे प्रियाणां निवेशितं कुसुमबाणेन ॥ इति छाया)

आक्षेपध्वनिर्यथा--

स वक्तुमखिलान् शक्तो हयग्रीवाश्रितान् गुणान् ।
योऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ॥


लोचनम्

कुम्भस्थलेषु तद्वशेन रतिमाददानानामिव बहुमान इति सैव वीरतातिशयचमत्कारं विधत्त इत्युपमायाः प्राधान्यम् । असुरपराक्रमण इति । त्रैलोक्यविजयो हि तत्रास्य वर्ण्यते । तेषामसुराणां पातालवासिनां यैःपुनः पुनरिन्द्रपुरावमर्दनादि किं किं न कृतं तद्धृदयमिति यत्तेभ्यस्तेभ्योऽतिदुष्करेभ्योऽप्यकम्पनीयव्यवसायं तच्च । श्रीसहोदराणामत एवानिर्वाच्योत्कर्षाणामित्यर्थः । तेषां रत्नानामा समन्ताद्धरणे एकरसं तत्परं यद्धृदयं तत्कुसुमबाणेन सुकुमारतरोपकरणसम्भारेण प्रियाणां बिम्बाधरे निवे- शितम् , तदवलोकनपरिचुम्बनदर्शनमात्रकृतकृत्यताभिमानयोगि तेन कामदेवेन कृतम् । तेषां हृदयं यदत्यन्तं विजिगीषाज्वलनजाज्वल्यमानमभूदिति यावत् । अत्रातिश-

बालप्रिया

पराणि । शात्रवेषु शत्रुभूतेषु, शत्रुसम्बन्धिषु वा । अपिशब्दो रतिबहुमानोत्पत्तौ विरोधं द्योतयति । गजकुम्भस्थलेष्वित्यस्य रतिमित्यनेन बहुमान इत्यनेन च सम्ब- न्धः। तद्वशेन उपमावशेन । रतिं प्रीतिम् । आददानां बिभ्रताम् । इवेति प्रतीतौ । बहुमान इति । प्रियाकुचकुड्मलसादृश्येन गजकुम्भस्थलेषु प्रीतिं बिभ्रतां वीराणां तेषु बहुमतिरिवेत्यर्थः । रतिमाददानामनुरक्तानामिवेत्यर्थ इति वा । इतीति हेतौ। सैव उत्तोपमैव । वीरतेति । प्रतीयमानो यो भटानां वीर्यातिशयस्तस्य यश्चमत्कारः चमत्कारकारित्वं तमित्यर्थः । विधत्ते सम्पादयति । इतीति हेतौ । वीररसोपस्कारकत्वेनेत्यर्थः । तत्रास्येति । विषमबाणलीलायां कामस्यैत्यर्थः। तेषा' मित्यस्यैव विवरणम्-यैरित्यादि । तदित्यस्य व्याख्यानं यत्तेभ्य इत्यादि । अक- म्पनीयेति । अचालनीयेत्यर्थः । गम्यर्थ कथनम्-अनिर्वाच्येत्यादि । सुकुमारे- त्यादि च । 'बिम्बाधरे निवेशितमि'त्यस्य भावार्थमाह-तदित्यादि । तेषां हृदयं यदित्यादिना पूर्वार्धभावार्थकथनं तदिति शेषः । तत्तेन कामदेवेन तदवलोकनपरिचु- म्बनदर्शनमानकृतकृत्यताभिमानयोगि कृतमिति सम्बन्धः । अत्रातिशयोक्तिरिति ।

     ३४ ध्व०