पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६४
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

इत्युक्तं प्राक् । अत्र च क्षोभो मदनविकारात्मा सहृदयस्य त्वन्मुखावलोकनेन भवती- तीयत्यभिधाया विश्रान्ततया रूपकं ध्वन्यमानमेव । वाच्यालङ्कारश्चात्र श्लेषः, स च न व्यञ्जकः । अनुरणनरूपं यद्रूपकमर्थशक्तिव्यङ्गयं तदाश्रयेणेह काव्यस्य चारुत्वं व्यवति. ष्टते । ततस्तेनैव व्यपदेश इति सम्बन्धः । तुल्ययोजनत्वादुपमाध्वन्युदाहरणयोर्लक्षणं स्वकण्ठेन न योजितम् ।

वीराणां रमते घुसृणारुणे न तथा प्रियास्तनोत्सङ्गे ।
दृष्टो रिपुगजकुम्भस्थले यथा बहलसिन्दूरे ॥

 प्रसाधितप्रियतमाश्वासनपरतया समनन्तरीभूतयुद्धत्वरितमनस्कतया च दोलाय- मान दृष्टित्वेऽपि युद्धे त्वरातिशय इति व्यतिरेको वाच्यालङ्कारः । तत्र तु येयं ध्वन्य- मानोपमा प्रियाकुचकुड्मलाभ्यां सकलजनत्रासकरेष्वपि शात्रवेषु मर्दनोद्यतेषु राज-

बालप्रिया

इति । आश्रयायिणोरभेदाध्यवसायेनोक्तिः । मन्ये इत्यनेनास्य सम्बन्धः। निश्चि- नोमीति तदर्थः । तथाविधे मुखे प्रकाशमाने क्षोभप्राप्त्यभावात् , जनैरुच्यमानं महं- ज्जाड्यं पयोधेनिश्चिनोमीत्यर्थः । अत्रापि जाड्यपदार्थस्यानाभिज्ञत्वस्य जलस्य चैक्याध्यवसायो बोध्यः । भावार्थप्रधाना इति । प्राधान्येन जाडयाद्यर्थवाचका इत्यर्थः । व्यङ्गयस्योक्तस्य वाच्यसिद्धयङ्गत्वं निराकुर्वन् ध्वनि व्यवस्थापयति-अत्र चे. त्यादि । त्वन्मुखावलोकनेनेति । सप्तम्यन्ततयाऽपि पाठः । इयतीति । तथावि. धक्षोभप्राप्त्यभावात् पयोनिधिर्जडराशिरिति निश्चिनोमि इत्येतावत्यर्थे इत्यर्थः । रूप. कमिति । नायिकामुखे पूर्णचन्द्राभेद इत्यर्थः । श्लेष इति । जडशब्दगतश्लेष इत्यर्थः । न व्यञ्जक इति तस्योक्तरूपकध्वनावनुपयोगादिति भावः । अनुरणनरूप. रुपकेत्यादि व्याचष्टे-अनुरणनरूपं यद्रूपकमित्यादि । ननु वृत्तौ वीराणामित्युदाहर- णयोरुपमाध्वनिः स्वशब्देन कुतो न योजित इत्यत आह- -तुल्येत्यादि । स्वकण्ठेन स्ववचनेन । वीराणामिति । वीराणां दृष्टिर्यथा बहलसिन्दूरे रिपुगजकुम्भस्थले रमते, तथा घुसणारुणे प्रियास्तनोत्सङ्गे न रमते इत्यन्वयः । घुसृणं कुङ्कुमम् । विवृणोति-- प्रसाधितेत्यादि । प्रसाधिता अलङ्कृता । समाश्वासनं सम्भोगेनानन्दनम् । समनन्तरीभूतेति । प्रत्यासन्नेत्यर्थः । डोलायमाना चञ्चला । इति व्यतिरेको वाच्यालङ्कार इति । वीराणां दृष्टेः प्रियातनोत्सरमणापेक्षया रिपुगजकुम्भस्थलर- मणेऽतिशयत्य प्रतिपादनात् सम्भोगत्वरापेक्षया युद्धे त्वरातिशयो गम्यत इति तस्य वाच्यायमानत्वात् वाच्यालङ्कारता । यद्वा-इति व्यतिरेक इत्यस्य इत्यर्थव्यञ्जको व्यतिरेक इत्यर्थः । स च पूर्वोक्तः । अत्रोपमाध्वनिं विवृणोति-तत्र त्वित्यादि । तत्र तद्वचने । येयमित्यादि-गजकुम्भस्थलेषु इत्यस्य उपमेत्यनेन सम्बन्धः । गजकु- म्भस्थलानुयोगिका प्रियाकुचकुड्मलप्रतियोगिका ध्वन्यमाना येयमुपमेत्यर्थः । अस्याः प्राधान्यं विवृणोति--सकलेत्यादि । एतानि कुम्भस्थलविशेषणानि वस्तुस्थितिकथन-