पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६३
द्वितीयोद्द्योतः


लोचनम्

पत्तेः। यथा च-

ज्योत्स्नापूरप्रसरधवले सैकतेऽस्मिन्सरय्वा
वादद्यूतं सुचिरमभवत्सिद्धयूनोः कयोश्चित् ।
एकोऽवादीत्प्रथमनिहतं केशिनं कंसमन्यो
मत्वा तत्त्वं कथय भवता को इतस्तत्र पूर्वम् ।।

 इति केचिदुदाहरणमत्र पठन्ति, तदसत् ; भवतेत्यनेन शब्दबलेनात्र त्वं वासुदेव इत्यर्थस्य स्फुटोकृतत्वात् ।

 लावण्यं संस्थानमुग्धिमा, कान्तिः प्रभा ताभ्यां परिपूरितानि संविभक्तानि हृद्यानि सम्पादितानि दिङ्मुखानि येन । अधुना कोपकालुष्यादनन्तरं प्रसादौन्मुख्येन । स्मेरे ईषद्विहसनशीले तरलायते प्रसादान्दोलनविकाससुन्दरे अक्षिणी यस्यास्तस्या आमन्त्र- णम् । अथ चाधुना न एति, वृत्ते तु क्षणान्तरे क्षोभमगमत् । कोपकषायपाटलं स्मेरं च तव मुखं सन्ध्यारुणपूर्णशशधरमण्डलमेवेति भाव्यं क्षोभेण चलचित्ततया सहृदयस्य । न चैति तत्सुव्यक्तमन्वर्थतायं जलराशिर्जाड्यसञ्चयः । जलादयः शब्दा भावार्थप्रधाना

बालप्रिया

त्वपपाठ इत्याह-यथाचेत्यादि । तदसदित्यत्र हेतुमाह-भवतेत्यादि । स्फुटीकृतत्वादिति । भवच्छब्दार्थस्य वर्ण्यस्य राज्ञो हननकर्तृत्वोक्त्या तस्य वासु- देवाभेदो यतः स्फुटीकृतस्तस्मादित्यर्थः । तथाचात्र व्यङ्गयं गुणीभूतमिति भावः । पौनरुक्त्यपरिहाराय लावण्यपदेनात्र विवक्षितमर्थं व्याचष्टे-संस्थानेति । आकृति- सौन्दर्यमित्यर्थः । 'संविभक्तानी'त्यस्यैव विवरणं हृद्यानीत्यीदि। । दिङ्मुखानीति। दिशामारम्भदेशा इत्यर्थः । येषु मुखस्य स्वदृष्टिद्वारा सम्बन्धस्तानि दिङ्मुखानीति भावः । 'अधुने'त्यस्य 'स्मेरे इत्यनेन सम्बन्ध इति व्याचष्टे-कोपेत्यादि। प्रसा. देति । प्रसादेन यावान्दोलनविकासौ ताभ्यां सुन्दरे इत्यर्थः । व्यायानुगणमर्थान्तरं चाह-अथ चेत्यादि । अधुनेत्यस्य न एति इत्यनेनापि सम्बन्ध इति भावः । अधुना नैतीत्यनेन गम्यमर्थान्तरं दर्शयति-वृत्ते त्वित्यादि । वृत्ते गते । क्षणान्तरे क्षणविशेषे, चन्द्रोदयकाले इति यावत् । क्षोभमगमदिति । पयोधिरिति शेषः । पयो- धेः क्षोभो दृष्ट इति भावः । रूपकध्वनिं दर्शयति-कोपेत्यादि । इतीति हेतौ । तथाविधस्य मुखस्य तथाविधचन्द्रमण्डलाभिन्नत्वादित्यर्थः । तद्दर्शनादिति यावत् । भाव्यमित्यादि । सहृदयस्य मदनविकारात्मकचित्तचाञ्चल्यरूपेण क्षोभेण भाव्यमि. त्यर्थः । पयोधेस्तु सलिलोल्लासलक्षणः क्षोभः । द्वयोः क्षोभयोरत्राभेदाध्यवसायः ।क्षोभ- पदस्य चित्तचाञ्चल्यमानार्थकत्वे तु मुखस्य सौन्दर्यातिशय एव ध्वनेन चन्द्राभेदः । अतश्चन्द्रोदयकार्यभूतसलिलोल्लासरूपक्षोभार्थकत्वमपि विवक्षितम् । न चैतीति । पयोधिः क्षोभमिति शेषः । तदिति । क्षोभप्राप्त्यभावादित्यर्थः। जाड्यसञ्चय