पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६२
सटीकलोचनोपेतध्वन्यालोके


 इत्येवंविधे विषयेऽनुरणनरूपरूपकाश्रयेण काव्यचारुत्वव्यवस्थाना- द्रूपकध्वनिरिति व्यपदेशो न्याय्यः ।

 उपमाध्वनिर्यथा-

वीराणं रमइ घुसिणरुणम्मि ण तदा पिआथणुच्छङ्गे ।
दिठ्ठी रिउगअकुम्भस्थलम्मि जह बहलसिन्दूरे ॥


लोचनम्

पता तस्य नृपतेर्ध्व॑न्यते । यद्यपि चात्र व्यतिरेको भाति, तथापि स पूर्ववासुदेवस्वरू- पात्, नाद्यतनात् । अद्यतनत्वे भगवतोऽपि प्राप्त श्रीकत्वेनानालस्येन सकलद्वीपाधिपति विजयित्वेन च वर्तमानत्वात् ।

 न च सन्देहोत्प्रेक्षानुपपत्तिबलाद्रूपकस्याक्षेपः, येन वाच्यालङ्कारोपस्कारकत्वं व्य- ङ्गयस्य भवेत् । यो योऽसम्प्राप्तलक्ष्मीको निर्व्याजविजिगीषाकान्तः स स मां मथ्नी- यादित्याद्यर्थसम्भावनात् । न च पुनरपीति पूर्वामिति भूय इति च शब्दैरयमाङ्ग- ष्टोऽर्थः । पुनरर्थस्य भूयोर्थस्य च कर्तृभेदेऽपि समुद्रैक्यमात्रेणाप्युपपत्तेः । यथा पृथ्वी पूर्वं कार्तवीर्येण जिता पुनरपि जामदग्न्येनेति । पूर्वा निद्रा च सिद्धा राजपुत्रायवस्था- यामपीति सिद्धं रूपकध्वनिरेवायमिति । शब्दव्यापारं विनैवार्थसौन्दर्यबलाद्रूपणाप्रति-

बालप्रिया

तेन सङ्करेण । वासुदेवरूपतेति । भगवद्वासुदेवाभेद इत्यर्थः । व्यतिरेको भाती. ति । प्राप्तश्रीकत्वादिना राज्ञो वासुदेवाद्वयतिरेको भातीत्यर्थः । तथाच कथमभेदभानं भवतीति भावः । सः व्यतिरेकः । पूर्ववासुदेवस्वरूपादिति । पूर्वः मथनोयुक्तो निद्रोन्मुखः सेतुबन्धनोयुक्तश्च यो वासुदेवः तत्स्वरूपादित्यर्थः। नाद्यतनादिति । सभातीत्यनुषङ्गः । अत्र हेतुमाह-अद्यतनत्व इत्यादि । वर्तमानत्वादिति । विशिष्टत्वादित्यर्थः । तथाचैतद्वचनकालीनतथाविधवासुदेवाद्व्यतिरेको न भातीति तदभेदोऽत्र ध्वन्यत इति भावः ।

 नन्वत्र निशि वासुदेवत्वप्रतीति विना पयोधेरुक्तवितर्का न धटन्त इत्यतस्तद्व्यः ङ्गयं तदुपपादकतया गुणीभूतमिति शङ्कां परिहरति-न चेत्यादि । येनेति । अनु- पपत्तिमूलकाक्षेपेणेत्यर्थः । वाच्यालङ्कारेति । ससन्देहोत्प्रेक्षासङ्करेत्यर्थः । नाक्षेप इत्यत्र हेतुमाह-यो य इत्यादि । वासुदेव इव असम्प्राप्तलक्ष्मीको यो यो जनः, स स मा मथ्नीयात् । निर्व्याजविजिगोषाक्रान्तो यो यः, स स मयि सेतुं बध्नीयादि- त्यादिसंशयसम्भवादित्यर्थः । स्वोक्त्या व्यङ्गयाविष्करणमाशङ्क्य परिहरति-न चेत्यादि । अयमर्थ इति । राज्ञो वासुदेवत्वमित्यर्थः । इतीति हेतौ । अयं रूपक ध्वनिरेवेति सिद्धमित्यन्वयः। अत्र हेतुमाह-शब्देति । शब्दव्यापारः अभिधा । क्वचित् ग्रन्थे प्राप्तश्रीरित्यस्यानन्तरं यथा वा 'ज्योत्स्नापूरे’त्यादि पाठो दृश्यते, स