पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८६
सटीकलोचनोपेतध्वन्यालोके


स्खलद्वतेरुपचरितस्य शब्दस्याव्युत्पत्तेरशक्तेर्वा निबन्धो यः स च न ध्वनेर्विषयः । यतः-

सर्वेष्वेव प्रभेदेषु स्फुटत्वेनावभासनम् ।
यद्वयङ्गयस्याङ्गिभूतस्य तत्पूर्णं ध्वनिलक्षणम् ॥ ३३ ॥


लोचनम्

णाद्यसामर्थ्यम् । यथा

विषम काण्डकुटुम्बकसञ्चयप्रवर वारिनिधौ पतता त्वया ।
चलतरङ्गविघूर्णितभाजने विचलतात्मनि कुड्यमये कृता ॥

 अत्र प्रवरान्तमाद्यपदं चन्द्रमस्युपचरितम् । भाजन मित्याशये, कुड्यमय इति च विचले । अत्रैतत् कामपि कान्ति न पुष्यति, ऋते वृत्तपूरणात् । स चेति। प्रथमो- द्द्योते यः प्रसिद्धयनुरोधप्रवर्तितव्यवहाराः कवय इत्यत्र 'वदति बिसिनोपत्रशयनम्' इत्यादि भाक्त उक्तः । स न केवलं ध्वनेर्न विषयो यावदयमन्योऽपीति चशब्दस्यार्थः । उक्तमेव ध्वनिस्वरूपं तदाभासविवेकहेतुतया कारिकाकारोऽनुवदतीत्यभिप्रायेण वृत्तिकृ- दुपस्कारं ददाति-यत इति । अवभासनमिति । भावानयने द्रव्यानयनमिति न्या- यादवभासमानं व्यङ्गयम् । ध्वनिलक्षणं ध्वनेः स्वरूपं पूर्णम् , अवभासनं वा ज्ञानं तद्ध्वनेर्लक्षणं प्रमाणं, तच्च पूर्णं, पूर्णध्वनिस्वरूपनिवेदकत्वात् । अथ वा ज्ञानमेव

बालप्रिया

 विषमेति । विषमः विषमसंख्याकः काण्डश्शरों यस्य तस्य कामदेवस्य, यः कु- डुम्बकसञ्चयः तस्य प्रवरमुख्य हे चन्द्रेत्यर्थः । वारिनिधौ पतता पतितेन त्वया । कुर- ङ्गेति पाठे च लताकुरङ्गेण मृगेण विघूर्णितं भाजनं मध्यभागो यस्य तस्मिन्नित्यात्मविशे. षणम् । तरङ्गेति पाठे वारिनिधिविशेषणम् । कुड्यमये अचञ्चले। आत्मनि स्वशरीरे । विचलतेति । चञ्चलतेत्यर्थः । कृता उत्पादिता। उपचरितमित्यस्य उत्तरवाक्ययो- रपि सम्बन्धः । स चैति चकारः प्रथमोद्योतोक्तसमुच्चायक इत्याह-प्रथमद्योतो इत्यादि । स नेत्यादि । तन्मात्रं ध्वनेरविषयो नेत्यर्थः । अन्योऽपीति । अव्युत्पत्ते- रित्यायुक्तप्रकारोऽपीत्यर्थः । अवभासनमित्यादिक व्याचष्टे-भावेत्यादि । अवभासन- पदेन अवभासमानं व्यंग्यं लक्ष्यत इति भावः । पूर्ण स्वरूपमिति सम्बन्धः । नन्वेवं व्यंग्यस्याङ्गीभूतस्येत्यस्यान्वयो दुर्घट इत्यत आह-अवभासनमित्यादि । तत् स्फुटत्वेन ज्ञानम् । लक्ष्यते ज्ञायते अनेनेति व्युत्पत्यनुरोधेनाह-प्रमाणमिति । लक्षणपदस्य प्रमाणार्थकत्वं न स्वरसं, तत्पदमसाधारणधर्मार्थकमेवेत्याशयेनाह-अथवे. त्यादि । लक्षणज्ञानयोः परिच्छेद्यपरिच्छेदकभावात्तयोरेक्यारोपेणात्र निर्देश इत्याह-