पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५९
द्वितीयोद्योतः


इयत्पुनरुच्यत एव--

अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।
तत्परत्वं न वाच्यस्य नासौ मार्गो ध्वनेर्मतः ॥ २७॥

 अलङ्कारान्तरेषु त्वनुरणनरूपालङ्कारप्रतीतो सत्यामपि यत्र वाच्यस्य व्यङ्ग्यप्रतिपादनौन्मुख्येन चारुत्वं न प्रकाशते नासौ ध्वनेर्मार्गः । तथा च दीपकादावलङ्कारे उपमाया गम्यमानत्वेऽपि तत्परत्वेन चारुत्वस्याव्य. वस्थानान्न ध्वनिव्यपदेशः । यथा-

 चम्दमऊएहि णिसा णलिनी कमलेहि कुसुमगुच्छेहि लआ।


लोचनम्

संहारग्रन्थे 'तेऽलङ्काराः परां छायां यान्ति धन्यङ्गतां गताः' इत्यत्र श्लोके वृत्तिकृत "ध्वन्यङ्गता चोभाभ्यां प्रकाराभ्यां' इत्युपक्रम्य 'तत्रेह प्रकरणाद्वयङ्गयत्वेनेत्यवगन्तव्यम्' इति वक्ष्यति। अन्तरशब्दो वोभयत्रापि विशेषपर्यायः; वैषयिको सप्तमी, न तु प्राग्व्या- ख्यायामिव निमित्तसप्तमी। तदयमर्थः-वाच्यालङ्कार विशेषविषये व्यङ्गयालङ्कारविशेषो भातीत्युद्भटादिभिरुक्तमेवेत्यर्थशक्त्यालङ्कारो व्यज्यत इति तैरुपगतमेव । केवलं तेऽलङ्कारलक्षणकारत्वाद्वाच्यालङ्कारविशेषविषयत्वेनाहुरिति भावः ॥ २६ ॥

 ननु पूर्वैरेव यदीदमुक्त किमर्थं तव यत्न इत्याशङ्कयाह-इयदिति । अस्माभि- रिति वाक्यशेषः। पुनःशब्दस्तदुक्ताद्विशेषद्योतकः । चन्दमऊ इति । चन्द्रमयूखादी. नां न निशादिना विना कोऽपि परभागलाभः।सज्जनानामपि काव्यकथां विना कीदशी

बालप्रिया

प्रकृतमित्यत्राह-अर्थेत्यादि। अत्रोपष्टम्भकमाह-तथाचेत्यादि । प्रकरणद्वव्य- ङ्गयत्वेनेति । ध्वन्यङ्गतेत्यनेनास्य सम्बन्धः । अलङ्कारान्तरेण अलङ्कारान्तरस्य व्यङ्गयत्वमित्यस्य एकालङ्कारनिमित्तकमन्यालङ्कारस्य व्यङ्गयत्वमित्यर्थमभिसन्धाय भावार्थो विवृतः । अथार्थान्तराभिप्रायेण विवृणोति-मन्तरशब्दो वेति । विशेषप. र्यायः विशेषवाची । वैषयिकी विषयरूपार्थवाचिका। सप्तमीति । 'अलङ्कारान्तर' इत्यत्रत्यसप्तमीत्यर्थः । फलितमाह-तदित्यादि । वाच्येति । वाच्यालङ्कारविशेष- रूपो यो विषयस्तस्मिन्नित्यर्थः । वाच्यालङ्कारविशेषशालिनि काव्य इति यावत् । भातीति । यथा ससन्देहादाघुपमादिः ॥ २६ ॥

 चन्द्रेत्यादि । अत्र गुर्वीक्रियत इत्यस्य चन्द्रमयूखैर्निशेत्यादिभिः पञ्चभिः प्रत्येकं सम्बन्धः । अत्र निशया चन्द्रमयूखाः गुरवः क्रियन्ते इत्यादिविपरिणामेन पदानां सम्बन्धादर्थसामर्थ्याद्वा प्रतीयमानमर्थान्तरं दर्शयति-चन्द्रेत्यादि । कीदृशीति ।