पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६०
सटीकलोचनोपेतध्वन्यालोके


हंसेहि सरअसोहा कव्वकहा सज्जनेहि करइ गरुई ।
(चन्द्रमयूखैर्निशा नलिनी कमलैः कुसुमगुच्छलता ।
( हंसैश्शारदशोभा काव्यकथा सज्जनैः क्रियते गुर्वी ॥ इति छाया)
इत्यादिषूपमागर्मरत्वेऽपि सति वाच्यालङ्कारमुखेनैव चारुत्वं व्यवतिष्ठते

न व्यङ्ग्यालङ्कारतात्पर्येण । तस्मात्तत्र वाच्यालङ्कारमुखेनैव काव्यव्यप.

देशो न्याय्यः । यत्र तु व्यङ्ग्यपरत्वेनैव वाच्यस्य व्यवस्थानं तत्र व्यङ्ग्य.

मुखेनैव व्यपदेशो युक्तः ।


लोचनम्

साधुजनता । चन्द्रमयूखैश्च निशाया गुरुकीकरणं भास्वरत्वसेव्यत्वादि यत्कि- यते, कमलैर्नलिन्याः शोभापरिमललक्ष्म्यादि, कुसुमगुच्छैर्लताया अभिगम्यत्वमनोहर त्वादि, हंसः शारदशोभायाः श्रुतिसुखकरत्वमनोहरत्वादि, तत्सर्वं काव्य कथायाः सज्ज- नैरित्येतावानयमर्थो गुरुः क्रियत इति दीपकवलाच्चकास्ति । कथाशब्द इदमाह- आसतां तावत्काव्यस्य केचन सूक्ष्मा विशेषाः, सज्जनैर्विना काव्यमित्येष शब्दोऽपि ध्वंसते। तेषु तु सत्स्वास्ते सुभगं काव्यशब्दव्यपदेशभागपि शब्दसन्दर्भमात्रम् ; तथा तैः क्रियते यथादरणीयता प्रतिपद्यत इति दीपकस्यैव प्राधान्यं नोपमायाः। एवं तु कारिकार्थमुदाहरणेन प्रदर्श्यास्या एव कारिकाया व्यवच्छेद्यबलेन योऽर्थोऽभिमतो यत्र तत्परत्वं स ध्वनेमार्ग इत्येवंरूपस्तं व्यावष्टे-यत्र त्विति । तत्र च वाच्यालङ्कारेण कदाचिद्वयङ्गयमलङ्कारान्तरं, यदि वा वाच्यालङ्कारस्य सद्भावमात्रं न व्यञ्जकता,वाच्या-

बालप्रिया

न भवतीत्यर्थः । गुरुकीकरणं विवृणोति-चन्द्रमयूखैश्चेत्यादि । यत्क्रियते इति । तदिति शेषः। कमलैरित्यादिवाक्येष्वपि यत्कियत इत्यस्यानुषङ्गः। तत्सर्वमिति । काव्यकथान्वययोग्यं पूर्वोक्तं सेव्यत्वमनोहरत्वादिकमित्यर्थः । सज्जनैरिति । क्रियत इत्यस्यानुषङ्गः । चकास्तीति । वाच्यतया प्रतीयत इत्यर्थः । कवितेत्यनुक्त्वा काव्य- कथेत्युक्तेः फलमाह-कथेत्यादि। काव्यकथेत्यस्य कथ्यमानं काव्यमित्यर्थः । तत्र कथाशब्दो वक्ष्यमाणं द्योतयतीत्यर्थः । सूक्ष्मा विशेषाः ध्वनित्वादयः । तेष्विति । सज्जनेवित्यर्थः । शब्दसन्दर्भमात्रमपि काव्यशब्दव्यपदेशभाक् सुभग- मास्त इत्यन्वयः । कुत इत्यत्राह-तथेत्यादि । 'इति दीपकस्येत्यादिना 'वाच्ये'. त्यादिवृत्तिप्रन्थो विवृतः । नोपमाया इति । सज्जनेषु हंसादीनां काव्यकथायां निशा- दीनां च गम्यमानाया उपमाया न प्राधान्यमित्यर्थः । व्यवच्छेद्यबलेनेति । यत्र भासते तत्परत्वं नेत्यायुक्तिसामर्थ्य नेत्यर्थः । अभिमतः विवक्षितः। यत्रेत्यादिना प्रदर्शितस्य विकल्पेन त्रैविध्यं भवतीति दर्शयति-तत्र चेत्यादि । कदाचिदित्य-