पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५८
सटीकलोचनोपेतध्वन्यालोके

रूपकादिरलङ्कारवर्गो यो वाच्यतां श्रितः ।
स सर्वो गम्यमानत्वं विभ्रद्भूम्ना प्रदर्शितः ॥२६॥

 अन्यत्र वाच्यत्वेन प्रसिद्धो यो रूपकादिरलङ्कारः सोऽन्यत्र प्रती. यमानतया बाहुल्येन प्रदर्शितस्तत्रभवद्धिर्भट्टोद्भटादिभिः । तथा च सस. न्देहादिषूपमारूपकातिशयोक्तीनां प्रकाशमानत्वं प्रदर्शितमित्यलङ्कारान्तर- स्यालङ्कारान्तरे व्यङ्ग्यत्वं न यत्नप्रतिपाद्यम् ।


लोचनम्

शक्त्या तु कोऽलङ्कारो भातीत्याशङ्काबीजम् । सर्व इति प्रदर्शित इति च पदेनास- म्भावनात्र मिथ्यैवेत्याह।

उपमानेन तत्त्वं च भेदं च वदतः पुनः ।
ससन्देहं वचः स्तुत्यै ससन्देहं विदुर्यथा ॥ इति ।
तस्याः पाणिरयं नु मारूतचलत्पत्राङ्गुलिः पल्लवः

 इत्यादावुपमा रूपकं वा ध्वन्यते । अतिशयोक्तेश्च प्रायशः सर्वालङ्कारेषु ध्वन्य- मानत्वम् । अलङ्कारान्तरस्येति । यत्रालङ्कारोऽप्यलङ्कारान्तरं ध्वनति तत्र वस्तु- मात्रेणालङ्कारो ध्वन्यत इति कियदिदमसम्भाव्यमिति तात्पर्येणालङ्कारान्तरशब्दो वृत्तिकृता प्रयुक्तो न तु प्रकृतोपयोगी ; न ह्यलङ्कारेणालङ्कारो ध्वन्यत इति प्रकृतमदः, अर्थशक्त्युद्भवे ध्वनौ वस्त्विवालङ्कारोऽपि व्यङ्गय इत्येतावतः प्रकृतत्वात् । तथा चोप-

बालप्रिया

तथा च ससन्देहादिष्वित्यादिवृत्तिप्रन्थं विवृणोति-उपमानेनेत्यादि । लक्षणमिदमुद्भ- टोक्तम् । तत्त्वमिति । अभेदमित्यर्थः । भेदं वैधर्म्यमुपमेयस्येति शेषः । वदतः वर्णयतः कवेः । इतीति । 'अलङ्करान्तरच्छायामित्यादिकारिकया भेदानुपनिबन्धन घटितमपि लक्षितं तस्योपलक्षणमिदम् । तस्या इति । श्लोकस्यास्य सम्पूर्णस्यानवग. माद्यथाभातं व्याख्यायते-अयं तस्याः पाणिः पल्लवः नु इति योजना। नु इति सं. शये । उभयसाधारणम्-मारुतेत्यादि । मारतचलत्पत्राण्येवाङ्गुलयो यस्य सः । अङ्गु. लीनां चलत्वमर्थात् सिध्यति । 'उपमारूपकातिशयोक्तीना' इत्यत्रेतरेतरयोगो न विव. क्षित इत्याशयेनाह-उपमारूपकं वेति । अतिशयोक्तेश्चेति । एतत्तृतीयोद्योते वक्ष्यते । 'इत्यलङ्कारान्तरस्य'त्यादिग्रन्थो यथाश्रुते प्रकृतासङ्गत इत्यतरतद्भावार्थमाह- यत्रेत्यादि । यत्र काव्ये । यद्वा-यतः तत्र तत्काव्ये । यद्वा-ततः इतीदमित्य- न्वयः । कियदित्यादि । असम्भाव्यं नेत्यर्थः । अलङ्कारान्तरशब्दः सप्तम्यन्ता- लङ्कारान्तरशब्दः । 'न तु प्रकृतोपयोगी त्यत्र हेतुमाह-न हीत्यादि । तर्हि किं