पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५५
द्वितीयोद्द्योतः


कविप्रौढोक्तिमात्रनिष्पन्नशरीरो यथा--

सज्जेहि सुरहिमासो ण दाव अप्पेइ जुअइजणलक्खमुहे ।
अहिणवसहआरमुहे णवपल्लवपत्तले अणङ्गस्स शरे ।
कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो यथोदाहृतमेव-'शिख

रिणि' इत्यादि।


लोचनम्

सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यमुखान् ।
अभिनवसहकारमुखान्नवपल्लवपत्रलाननङ्गस्य शरान् ॥

 अत्र वसन्तश्चेतनोऽनङ्गस्य सखा सज्जयति केवलं न तावदर्पयतीत्येवंविधया सम- र्पयितव्यवस्त्वर्पणकुशलयोक्त्या सहकारोद्भेदिनी वसन्तदशा यत उक्ता अतो ध्वन्यमानं मन्मथोन्माथस्यारम्भं क्रमेण गाढगाढीभविष्यन्तं व्यनक्ति । अन्यथा वसन्ते सपल्लव. सहकारोद्गम इति वस्तुमानं न व्यञ्जकं स्यात् । एषा च कवेरेवोक्तिः प्रौढा । शिख. रिणीति । अत्र लोहितं बिम्बफलं शुको दशतीति न व्यञ्जकता काचित् । यदा तु कविनिबद्धस्य साभिलाषस्य तरुणस्य वक्तुरित्थं प्रौढोक्तिस्तदा व्यञ्जकत्वम् ।

बालप्रिया

सहृदयहृदयार्पणयोग्येत्यर्थः। वृत्तौ-स्वतस्सम्भवी च द्वितीय' इति पाठः क्वाचित्कः ।

 सज्जयतीति । सुरभिमासः वसन्तसम्बन्धी मासः । युवतिजना एव लक्ष्याणि येषां तथाविधानि मुखान्यप्राणि येषां तान् । लक्षसहानिति पाठे तानि सहन्ते तेष्वेव प्रयोज्या इति यावत्तानित्यर्थः । नवेति । नवानि पल्लवाश्च पत्राणि च तानि लान्ति आददते इति तान् । अभीति । नूतनसहकारपुष्पादीनित्यर्थः । तानेव अनङ्गस्य शरान् । सज्जयति, न तावदर्पयतीत्यन्वयः । सज्जीकरणाद्यन्वयोपपत्यर्थमाह लोचने- वसन्तश्चेतन इति । वसन्तश्चेतनत्वेनाध्यस्त इति भावः । सहेति । सहकारस्यो. द्भेदः प्रकाशः तद्वतीत्यर्थः । सहकारपदं पुष्पान्तरोपलक्षणम् । उक्तेति । अभिहिते- त्यर्थः । उक्त्या उक्तेति सम्बन्धः । अतो ध्वन्यमानमित्यादि । तथाविधाननङ्गस्य शरान् सज्जयति केवलमित्यनेन मन्मथोन्मायनस्यारम्भः, न तावदर्पयतीत्यनेन भवि. ष्यदर्पणव्यञ्जनद्वारा मन्मथोन्माथनस्य भावी गाढगाढी भावश्च द्योत्यत इत्यर्थः । अ. न्यथेति । उक्तप्रकारातिरिक्तप्रकारेणेत्यर्थः । तत्प्रकारमाह-वसन्त इत्यादि । इती. ति । एतद्वचनप्रतिपाद्यमित्यर्थः । नेत्यादि । उक्तार्थव्यञ्जकं न भवेदित्यर्थः । अत्रेत्या- दि । शुक इत्यस्य स्थाने अयं शुकपोतक इति च पाठः । इतीत्यादि । इतिवचनप्रति- पाद्यस्य काऽपि व्यञ्जकता नेत्यर्थः । इत्थमिति । शिखरिणीत्यादिरूपेत्यर्थः । तदा