पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५४
सटीकलोचनोपेतध्वन्यालोके


प्रौढोक्तिमात्रनिष्पन्नशरीरः सम्भवी स्वतः ।
अर्थोऽपि द्विविधो ज्ञेयो वस्तुनोऽन्यस्य दीपक: ॥ २४ ॥

 अर्थशक्त्युद्भवानुरणनरूपन्यङ्गये ध्वनौ यो व्यञ्जकोऽर्थ उक्तस्तस्यापि द्वौ प्रकारौ--कवेः कविनिबद्धस्य वा वक्तुः प्रौढोक्तिमात्रनिष्पन्न शरीर एकः, स्वतस्सम्भवी च द्वितीयः ।


लोचनम्

अर्थशक्तिस्तु प्रकरणवशात् । यावदत्र राधारमणस्याखिलतरुणीजनच्छन्नानुरागगरिमा- स्पदत्वं न विदितं तावदर्थान्तरस्याप्रतीतेः, सलेशमिति चात्र स्वोक्तिः ॥ २३ ॥

 एवमर्थशक्त्युद्भवस्य सामान्यलक्षणं कृतम् । श्लेषाद्यलङ्कारेभ्यश्चास्य विभक्तो विषय उक्तः । अधुनास्य प्रभेदनिरूपणं करोति-प्रौढोक्तीत्यादिना । योऽर्थान्तरस्य दीपको व्यञ्जकोऽर्थ उक्तः सोऽपि द्विविधः। न केवलमनुस्वानोपमो द्विविधः, यावत्त. द्भेदो यो द्वितीयः सोऽपि व्यञ्जकार्थ द्वैविध्यद्वारेण द्विविध इत्यपिशब्दस्यार्थः । प्रौढो. क्तेरप्यवान्तरभेदमाह-कवेरिति । तेनैते त्रयो भेदा भवन्ति । प्रकर्षेण ऊढः सम्पा- दयितव्येन वस्तुना प्राप्तस्तत्कुशलः प्रौढः । उक्तिरपि समर्पयितव्यवस्त्वर्पणोचिता प्रौढत्युच्यते ।

बालप्रिया

नेन न प्रदर्शितमित्यर्थः । अर्थशक्तिस्तु प्रकरणवशादित्युक्तमेव विवृणोति-याव. दित्यादि ॥ २३ ॥

 अर्थोऽपीत्यिपिशब्दार्थमाह-न केवलमित्यादि । कवेरित्यादिकमवतारयति- प्रौढोक्तेरिति । एते त्रयो भेदा इति । कविप्रौढोक्तिमात्रसिद्धः, कविनिबद्धवक्तृ: प्रौढोक्तिमात्रसिद्धः, स्वतस्सम्भवी चेति त्रयो भेदा इत्यर्थः । प्रौढपदव्युत्पत्तिमाह- प्रकर्षणेत्यादि । ऊढ इत्यस्य व्याख्यानं-सम्पादेत्यादि । तदिति । तस्मादित्यर्थः । सम्पादयितव्यवस्तुप्राप्तेः कुशल एव सम्भवादिति यावत् । प्रौढ इति । प्रौढ इत्यु- च्यत इत्यर्थः । प्र ऊढ इति स्थिते "प्रादूहोढे"त्यादिना वृद्धिः । समर्पयितव्येति ।


 १. अत्र केचित्-द्वौ भेदावेवोचितौ, कविनिबद्धवक्तृप्रौढोक्तिसिद्धस्य कविप्रौढो- क्तिसिद्धभेदेन गतार्थत्वात् । अन्यथा तन्निबद्धनिबद्धादेः पृथक्सङ्कलनायामनवस्थाप्र. सक्तेर्दुर्निवारत्वात् । तन्निबद्धनिबद्धादेः कविनिबद्धत्वेनानुगमे तु कवित्वेन प्रथमनिब- द्धस्यापि अनुगमसम्भवात् पृथग्गणनाया निर्युक्तिकत्वात् इत्यभिदधते । वस्तुतस्तु जरठभाषणमपेक्ष्य शिशुशुकभाषण इव कविभाषणात् कविनिवद्धभाषणे चमत्काराधि- क्योदयस्य सकलहृदयानुभवसिद्धत्वात् कवितन्निबद्धप्रौढोक्तिसिद्धभेदद्वयं समुचितम् , तन्निबद्धनिबद्धादेस्तु प्रणिधानविशेषप्रयोज्यप्रतिपत्तिकतया चमत्कृत्यनुदयात् नान- वस्थादोषप्रसङ्गस्सम्भवति इत्याचार्याणामाशयः ।