पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५३
द्वितीयोद्द्योतः


अर्थशक्त्या यथा-

अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो
निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र ।

अस्मिन् पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा
पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ।।

 उभयशक्त्या यथा-'दृष्टया केशवगोपरागहृतया' इत्यादौ ।


लोचनम्

इत्युक्तप्रकारेण भयनिवारणव्याजेन सुराणां प्रत्याख्यानं मन्थमूढां लक्ष्मीं कारयित्वा पयाधिर्यस्मै तामदात्स वो युष्माकं दुरितं दहत्विति सम्बन्धः ।

 अम्बेति । अत्रैकैकस्य पदस्य व्यञ्जकत्वं सहृदयैः सुकल्प्यमिति स्वकण्ठेन नो- क्तम् । व्याजशब्दोऽत्र स्वोक्तिः । एवमुपसंहारव्याजेन प्रकारद्वयं सोदाहरणं निरूप्य तृतीयं प्रकारमाह-उभयेति । शब्दशक्तिस्तावद्गोपरागादि शब्दश्लेषवशात् ।

बालप्रिया

 सकलेति । भगवत्सम्बन्धिषु सकलगुणेषु य आदरः स्वस्य बहुमतिस्तद्दर्शकेनेत्यर्थः । अत एवेति । समर्थाचरणस्य णिजर्थत्वादेवेत्यर्थः । मन्थमूढामिति । तज्ज्ञापकमिति भावः । उत्तरार्ध व्याचष्टे-इतीत्यादि । लक्ष्मी कारयित्वेति । "हृक्रोरन्यतरस्या" मित्यनेन कर्मसंज्ञा ।

 सुरूपं कश्चित्पान्थमवलोक्य प्रवृद्धमदना काचित्स्वैरिणी तमाह-अम्बेति। शेते इत्यस्योत्तरत्राप्यनुषङ्गः । परिणतवयसां वृद्धानाम् । निश्शेषैरगारकर्मभिस्वयमनुष्ठितैः गृहकर्मभिः यः श्रमस्तेन शिथिला अस्वस्था तनुर्यस्याः सा । 'अवसरेति । अवसरस्य तत्तत्स्थले मात्रादिशयनादिरूपस्य प्रस्तावस्य व्याहृतिरुक्तिः तस्य व्याजः सः पूर्वो यत्र तत्तथा । अत्रावयोर्यथाकामं रन्तुं शक्यं कोऽपि न जानीयात् , त्वद्दर्शनेन कामार्ता मा रमणेन प्रीणयेति वक्त्री बोधयतीति वक्तृवैशिष्टयादिज्ञानवतां सहृदयानां व्यज्यते । परन्तु व्यङ्गयार्थो यमवसरव्याहृतिव्याजपूर्वमिति व्याजशब्देन कविना आविष्कृतः । सुकल्प्यमिति । अम्बा तात इत्याभ्यां पित्रोर्नैसर्गिकवात्सल्यशालित्वेन तौ मम सर्वत्राप्यनुकूलावेवेति । तद्विशेषणाभ्यां निद्रापरवशत्वं परसाहाय्यं विना शयनादुत्थानाशकत्वमित्यादि, निश्शेषेत्यादिना दास्या गाढनिद्रितत्वम्, उक्तैर्हेतुभिस्तेषा- मनाशङ्कनीयत्वं, दासीत्यनेन स्वाज्ञावर्तित्वं, पापेत्यनेनाद्यावधिसरससम्भोगानुभवराहि- त्यम् , एकेत्यनेन पुरुषान्तरानुभोगाभावः, अत एव सम्भोगौत्सुक्यं, कतिपयेत्यादिना पत्युरचिरात्प्रत्यागमनमनाशङ्कयमिति प्राणनाथइत्यनेन पतिविषयकानुरागाभाव इति च द्योत्यत इत्यूह्यमिति भावः । इतीति हेतौ । स्वकण्ठेन नोक्तमिति । स्वयं व्याख्या.