पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५२
सटीकलोचनोपेतध्वन्यालोके


तत्र शब्दशक्त्या यथा-

वरसे मा गा विषादं श्वसनमुरुजवं सन्त्यजोर्ध्वप्रवृत्तं
कम्पः को वा गुरुस्ते भवतु बलभिदा जम्भितेनात्र याहि ।
प्रत्याख्यानं सुराणामिति भयशमनच्छद्मना कारयित्वा
यस्मै लक्ष्मीमद्वादः स दहतु दुरितं मन्थमूढां पयोधिः ॥


लोचनम्

लङ्कायस्याङ्गिनः स व्यङ्ध्गयोऽर्थोऽन्यो वाच्यमात्रालङ्कारापेक्षया. द्वितीयो लोकोत्तरश्वालङ्कार इत्यर्थः । एवमेव वृत्तौ द्विधा व्याख्यास्यति । विषमत्तीति विषादः। ऊर्ध्वप्रवृत्तम- ग्निमित्यत्र चार्थो मन्तव्यः । कम्पोऽपाम्पतिः को ब्रह्मा वा तव गुरुः । बलभिदा इन्द्रेण जृम्भितेन ऐश्वर्यमदमत्तेनेत्यर्थः । जृम्भितं च गात्रसंमर्दनात्मकं बलं भिनत्ति आयासकारित्वात् । प्रत्याख्यानमिति वचसैवात्र द्वितीयोऽर्थोऽभिधीयत इति निवे- दितम् । कारयित्वेति । सा हि कमला पुण्डरीकाक्षमेव हृदये निधायोत्थितेति स्वय- मेव देवान्तराणां प्रत्याख्यानं करोति । स्वभावसुकुमारतया तु मन्दरान्दोलितजल- धितरङ्गभङ्गपर्याकुलीकृतां तेन प्रतिवोधयता तत्समर्थाचरणमन्यत्र दोषोद्घाटनेन अत्र याहीति चाभिनयविशेषेण सकलगुणादरदर्शकेन कृतम् । अत एव मन्थमूढामित्याह ।

बालप्रिया

त्यादि । मसौ व्यङ्गयार्थः । द्वितीयं व्याचष्टे-अथवेत्यादि । पूर्वस्मिन् पक्षे ध्वने- रिति पञ्चम्यन्तं संलक्ष्यक्रमध्वनिपरमस्मिस्तु षष्ठयन्तमसंलक्ष्यक्रमध्वनिपरमित्याह- ध्वनिशब्देनेत्यादि । उक्त इति शेषः । तादृगन्य इति वृत्यनुरोधेनान्यपदं व्याचष्टे- वाच्येत्यादि । तादृगित्यस्य विवरणम्-लोकोत्तर इति ।

 वत्से इति । हे वत्से त्वं विषादं दुःखं मा गाः । ऊर्ध्वप्रवृत्तमुरुजवं श्वसन दीर्घश्वासं सन्त्यज संवृण्विति च पाठः, गुरुः महानित्यादि यथाश्रुतार्थस्य स्पष्टत्वादर्था- न्तरं विवृणोति-विषमित्यादि । विषाद इति । शिव इत्यर्थः । ऊर्ध्वप्रवृत्तमित्यस्य विवरणम्-'अग्निमिति । चार्थो मन्तव्य इति । श्वसनमूर्ध्वप्रवृत्तञ्चेति समुच्चयो ज्ञा- तव्य इत्यर्थः । गुरुः पिता। बलभिदा जृम्भितेनेत्यस्य वाच्यार्थञ्च प्रसङ्गादाह-जम्भि- तञ्चेत्यादि । द्वितीयार्थस्य स्वोक्त्याविष्करणं दर्शयति-प्रत्याख्यानमिति । वचः सैवेति । निवेदितमित्यनेनान्वयः । द्वितीयोऽर्थ इति । शिवादिपरित्यागरूपार्थ इत्यर्थः । कारयित्वेति । णिजर्थोऽत्र तत्समर्थाचरणरूपो न त्प्रवृत्तप्रवर्त्तनरूपः, तस्य रसाननुगुणत्वादित्याह-सा हीत्यादिना । सुकुमारतया पर्याकुलीकृतामिति सम्बन्धः । तामिति शेषः । प्रतिबोधयता तेन तत्समर्थाचरणं कृतमित्यन्वयः । तेन समुद्रेण । अन्यत्रेति । शिवादिदेवेष्वित्यर्थः । दोषोद्घाटनेनेति । विषादादिपदैः विषभक्ष- णादिदोषाणां प्रकाशनेनेत्यर्थः । अत्रेति । लोकोत्तरगुणविशिष्टे श्रीनारायणे इत्यर्थः ।