पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५१
द्वितीयोद्द्योतः


तथा च-

शब्दार्थशाक्त्या क्षिप्तोऽपि व्यङ्गयोऽर्थः कविना पुनः ।
यत्राविष्क्रियते स्वोक्त्या सान्यैवालङ्कृतिर्ध्वनेः ॥२३॥

 शब्दशक्त्यार्थशक्त्या शब्दार्थशक्त्या वाक्षिप्तोऽपि व्यङ्गयोऽर्थः कविना पुनर्यत्र स्वोक्त्या प्रकाशीक्रियते सोऽस्मादनुस्वानोपमव्यङ्ग्याद्- ध्वनेरन्य एवालङ्कारः । अलक्ष्यक्रमव्ययस्य वा ध्वनेः सति सम्भवे स तादृगन्योऽलङ्कारः।


लोचनम्

ततश्च ध्वनेर्यद्गोप्यमानतोदितचारुत्वात्मकं प्राणितं तदपहस्तितम् । यथा कश्चिदाह- 'गम्भीरोऽहं न मे कृत्यं कोऽपि वेद न सूचितम् । किश्चिद्ब्रवीमि' इति । तेन गाम्भीर्यसूचनार्थः प्रत्युत आविष्कृत एव । अत एवाह-व्यञ्जनकत्वमिति उकत्यै- वेति च ॥ २२ ॥

 प्रक्रान्तप्रकारद्वयोपसंहारं तृतीयप्रकारसूचनं चैकेनैव यत्नेन करोमीत्याशयेन साधारणमवतरणपदं प्रक्षिपति वृत्तिकृत्-तथा चेति । तेन चोक्तप्रकारद्वयेनायमपि तृतीयः प्रकारो मन्तव्य इत्यर्थः । शब्दश्चार्थश्च शब्दार्थौ चेत्येकशेषः । सान्यैवेति । न ध्वनिरसौ, अपि तु श्लेषादिरलङ्कार इत्यर्थः । अथवा ध्वनिशब्देनालक्ष्यक्रमः तस्या-

बालप्रिया

जीवितम् । दृष्टान्तमाह-यथेत्यादि । गम्भीर इति । गम्भीरो जनस्स्वकृत्यं वाचा न वदति, किन्तु कदाचित्सूचयतीति लोकस्थितिमभिप्रेत्य' कस्यचिदुक्तिरियम् । अहं गम्भीरो न भवामि । अतः मे कृत्यं सूचितं सत् कोऽपि न वेद न जानाति । अतः किञ्चिद्ब्रवीमीत्यन्वयः । तेनेति । उक्तेन वाक्येनेत्यर्थः । गाम्भीर्यसूचनार्थ इति । गाम्भीर्यसूचको वदनविकाराद्यभावरूपोऽर्थ इत्यर्थः । आविष्कृतः प्रकाशितः । उक्ताभिप्रायेणैव वृत्तौ 'व्यञ्जकत्वमुक्त्यैव निवेदित' मित्युक्तं, न तु व्यङ्गयार्थः शब्दा- न्तरेण प्रदर्शित इतीत्याह-अतएवेति ॥ २२ ॥

 'तथाचे'त्यस्य यथाश्रुतार्थे साङ्गत्याभावादवतारयन्विवृणोति-प्रक्रान्तेत्यादि । प्र- क्रान्तप्रकारद्वयेति । शब्दशक्तिमूलार्थशक्तिमूलध्वनिद्वयेत्यर्थः । तृतीयप्रकारेति । शब्दार्थोभवशक्तिमूलध्वनिप्रकारेत्यर्थः । इत्येकशेष इति । शब्दश्चार्थश्च शब्दार्थौ शब्दार्थौ च शब्दार्थौ च शब्दार्थाः तेषां शक्तेत्यर्थात्रिविधोऽपि भेदस्सगृहीत इति भावः । कारिकायां 'क्षिप्तोऽपीति पाठः । आक्षिप्त इतिच्छेदः । 'सेति 'यत्रैयस्य प्रतिनिर्देशः । तत्काव्यमित्यर्थः । यद्वा-तत्रेति शेषः । सेति व्यङ्गयार्थं इत्यर्थः । सा- न्येत्याद्यन्तपादो द्वेधा वृत्तौ विवृतः, तदनुरोधेनाद्यमर्थं विवृणोति लोचने-न ध्वनिरि-