पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५०
सटीकलोचनोपेतध्वन्यालोके


 यत्र च शब्दव्यापारसहायोऽर्थोऽर्थान्तरस्य व्यञ्जकत्वेनोपादीयते स

नास्य ध्वनेर्विषयः । यथा--

सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेबार्पिताकृतं लीलापमं निमीलितम् ॥

 अत्र लीलाकमलनिमीलनस्य व्यञ्जकत्वमुक्त्यैव निवेदितम् ।


लोचनम्

दिवृत्तान्तानुस्मरणेन तत्र प्रतिपत्तिं करोतीति क्रमव्यङ्गपतैव । रसस्त्वत्रापि दूरत एव व्यभिचारिस्वरूपे पर्यालोच्यमाने मातीति तदपेक्षयाऽलक्ष्यक्रमतैव । लज्जापेक्षया तु तत्र लक्ष्यक्रमत्वम् । अमुमेव भावमेवशब्दः केवलशब्दश्च सूचयति ।

 'उक्तिं विनेति यदुक्तं तव्यवच्छेद्यं दर्शयितुमुपक्रमते-यत्र चेति । चशब्दस्तु. शब्दस्यार्थे । अस्येति । अलक्ष्यक्रमस्तु तत्रापि स्यादेवेति भावः । उदाहरति-सङ्के- तेति । व्यञ्जकत्वमिति । प्रदोषसमयं प्रतीति शेषः । उक्त्यैवेति । आद्यपादत्रये- णेत्यर्थः । यद्यपि चात्र शब्दान्तरसन्निधानेऽपि प्रदोषार्थं प्रति न कस्यचिदभिधाशक्तिः पदस्येति व्यञ्जकत्वं न विघटितं, तथापि शब्देनैवोक्तमयमर्थोऽर्थान्तरस्य व्यञ्जक इति ।

बालप्रिया

पत्तुरिति शेषः। क्रमव्यङ्गयतैवेति । लज्जायास्संलक्ष्यक्रमव्यङ्गयत्वमेवेत्यर्थः । रस इति । शृङ्गार इत्यर्थः । अत्रापि ‘एवंवादिनी'त्यादावपि । दूरत एव विलम्वेनैव पर्यालोच्यमान इत्यनेन सम्बन्धः । लज्जारूपव्यभिचारिप्रतीतिर्विलम्बेनैव, तत्प्रतीतो सत्याच्च झटिति रसप्रतीतिरित्यर्थः । तदपेक्षया रसापेक्षया । अलक्ष्य क्रमतैवेत्येवका. रेण लक्ष्यक्रमत्वव्यवच्छेदः । तर्हि कथमत्र लक्ष्यक्रमत्वमुक्तमित्यत आह-लज्जेति। एवशब्दः केवलशब्दश्चेति । 'अलक्ष्यक्रमव्यङ्ग्यस्यैवेत्यत्रत्यैवशब्दः 'स तस्य केवलस्यत्यत्रत्यकेवलशब्दश्चेत्यर्थः । वृत्तौ 'अस्य ध्वने रित्यस्य संलक्ष्यक्रमध्वनेरि. त्यर्थः । तदुक्तेः फलमाह-अलक्ष्यक्रमस्त्विति ।

 सङ्केतेति । विदं सङ्केतकाले मनो यस्य तं तज्जिज्ञासुम् |अत एव हसद्भ्यां नेत्राभ्यामर्पितं सूचितं आकूतं सङ्केतकालजिज्ञासारूपाभिप्रायो येन तम् , ज्ञात्वेति सम्बन्धः । लोचने-प्रदोषार्थं प्रति न कस्यचिदभिधाशक्तिः पदस्येति । प्रदोषरूपार्थः केनापि पदेनाभिधया न प्रतिपाद्यत इत्यर्थः । इतीति हेतौ । न विघ- टितमिति । अतश्चात्र ध्वनिविषयत्वमेव युक्तमिति भावः। शब्देनेति । अयमर्थो- ऽर्थान्तरस्य व्यञ्जक इति शब्देनैवोक्तमित्यन्वयः। पद्मनिमीलनस्य प्रदोषसमयव्य- अकत्वमाद्यपादत्रयात्मकशब्देनैव प्रदर्शितमित्यर्थः । ततश्च तदपहस्तितमिति सम्ब- न्धः । गोप्येति । गोप्यमानतया उदितमुत्पन्नं यच्चारुत्वं तदात्मकमित्यर्थः। प्राणितं