पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४९
द्वितीयोद्द्योतः


तम् । इह तु सामाक्षिप्तव्यभिचारिमुखेन रसप्रतीतिः । तस्मादयमन्यो ध्वनेः प्रकारः।


लोचनम्

व्यक्तिस्तत्रास्त्वलक्ष्यक्रमः । यथा-

निर्वाणभूयिष्ठमथास्य वीर्य सन्धुक्षयन्तीव वपुर्गुणेन ।
अनुप्रयाता वनदेवताभिरदृश्यत स्थावराजकन्या ॥

इत्यादौ सम्पूर्णालम्बनोद्दीपन विभावतायोग्यस्वभाववर्णनम् ।

प्रतिग्रहीतुं प्रणयिप्रियत्वात्रिलोचनस्तामुपचक्रमे च ।
संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥

'इत्यनेन विभावतोपयोग उक्तः ।

हरस्तु किञ्चित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥

 अत्र हि भगवत्याः प्रथममेव तत्प्रवणत्वात्तस्य चेदानीं तदुन्मुखीभूतत्वात्प्रणयि- प्रियतया च पक्षपातस्य सूचितस्य गाढीभावाद्रत्यात्मनः स्थायिभावस्यौत्सुक्यावेगचा- पल्यहर्षादेश्च व्यभिचारिणः साधारणीभूतोऽनुभाववर्गः प्रकाशित इति विभावानुभावच- र्वणैव व्यभिचारिचर्वणायां पर्यवस्यति । व्यभिचारिणां पारतन्त्र्यादेव स्रक्सूत्रकल्पस्था- यिचर्वणाविश्रान्तेरलक्ष्यक्रमत्वम् । इह तु पद्मदलगणनमधोमुखत्वं चान्यथापि कुमा. रीणां सम्भाव्यत इति झटिति न लज्जायां विश्रमयति हृदयं, अपि तु प्राग्वृत्ततपश्चर्या-

बालप्रिया

परिग्रहः । सम्पूर्णेत्यादि । सम्पूर्णेति वर्णनविशेषणम् । आलम्बनमत्र देवी, उद्दीपनं सौन्दर्यवसन्तपुष्पाभरणादि । विभावतोपयोग इति । विभावताया उपयोग इत्यर्थः । उक्त इति । प्रतिग्रहीतुमित्यादिना सम्मोहनमित्यादिना च दर्शित इत्यर्थः। अत्र हीत्य- स्यानुभाववर्गः प्रकाशित इत्यनेन सम्बन्धः ।तत्प्रवणत्वादिति। हरासक्तत्वादित्यर्थः । तस्येति । हरस्यैत्यर्थः । तदुन्मुखीति । भगवत्युन्मुखीत्यर्थः । प्रणयिप्रियतयेति तद्धेतुकमालाग्रहणोपक्रमेणेत्यर्थः । सूचितस्येत्यनेनास्य सम्बन्धः । सूचितो यः पक्षपा- तः गाढीभावाद्रसात्मकस्थायिरूपः तस्य व्यभिचारिणश्च, योऽनुभाववर्ग इति सम्बन्धः। अनुभावः धैर्यपरिवृत्तिविलोचनव्यापरणादिरूपः । इतीति हेतौ । विभावानुभावचर्वणैः वेत्येवकारेण कारणान्तरव्यवच्छेदः । पारतन्त्र्यादिति । स्थायिपरतन्त्रत्वादित्यर्थः । स्त्रगिति । स्रक्स्थानीया व्यभिचारिणः, सूत्रस्थानीयः स्थयी। इह त्विति । एवं वादिनी'त्यादावित्यर्थः । अन्यथापीति । लज्जातिरिक्तहेतुनापीत्यर्थः । हृदयमिति । प्रतिपत्तुरिति शेषः । तत्रेति । लज्जायामित्यर्थः।' क्रमव्यङ्गयतैवेति । लज्जाया इति शेषः । प्रागिति । प्राग्वृत्तो यस्तपश्चर्यादिवृत्तान्तो देव्याः तदनुस्मरणेन तद्द्वारे- णेत्यर्थः । स्मारणेनेति वा पाठः। तत्र लज्जायाम् । करोति उत्पादयति । प्रति-

 ३२ ध्व०