पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४८
सटीकलोचनोपेतध्वन्यालोके


 यत्रार्थः स्वसामर्थ्यादर्थान्तरमभिव्यनक्ति शब्दव्यापारं विनैव सोऽर्थ.

शक्युद्भवो नामानुस्वानोपमव्यङ्गयो ध्वनिः ।

यथा-

एवंवादिनि देवर्षों पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती ॥

 अन्न हि लीलाकमलपत्रगणनमुपसर्जनीकृतस्वरूपं शब्दव्यापारं विनै- वार्थान्तरं व्यभिचारिभावलक्षणं प्रकाशयति । न चायमलक्ष्यक्रमव्यङ्ग्यस्यैव ध्वनेर्विषयः । यतो यत्र साक्षाच्छब्दनिवेदितेभ्यो विभावानुभावव्यभिचा- रिभ्यो रसादीनां प्रतीतिः,स तस्य केवलस्य मार्गः । यथा कुमारसम्भवे मधुप्र. सङ्गे वसन्तपुष्पाभरणं वहन्त्या देव्या आगमनादिवर्णनं मनोभवशरसन्धा. नपर्यन्तं शम्भोश्च परिवृत्तधैर्यस्य चेष्टाविशेषवर्णनादि साक्षाच्छन्दनिवेदि.


लोचनम्

वाशयेन वृत्ती व्याचष्टे-यत्रार्थः स्वसामर्थ्यादिति । स्वत इति शब्दः स्वश- ब्देन व्याख्यातः । उक्तिं विनेति व्याचष्टे-शब्दव्यापारं विनैवेति । उदाहरति- यथा एवमिति । अर्थान्तरमिति लज्जात्मकम् । साक्षादिति । व्यभिचारिणां यत्रालक्ष्यक्रमतया व्यवधिवन्ध्यैव प्रतिपत्तिः स्वविभावादिबलात्तत्र साक्षाच्छब्द. निवेदितत्वं विवक्षितमिति न पूर्वापरविरोधः । पूर्व युक्तं व्यभिचारिणामपि भावत्वान्न स्वशब्दतः प्रतिपत्तिरित्यादि विस्तरतः। एतदुक्तं भवति–यद्यपि रसभावादिरर्थो ध्वन्यमान एव भवति न वाच्यः कदाचिदपि, तथापि न सर्वोऽलक्ष्यक्रमस्य विषयः । यत्र हि विभावानुभावेभ्यः स्थायिगतेभ्यो व्यभिचारिगतेभ्यश्च पूर्णेभ्यो झटित्यैव रस-

बालप्रिया

सङ्गतं, तस्य तदभावस्य पूर्वमुक्तत्वादित्यतस्साक्षाच्छन्दनिवेदितत्वं . विवृणोति लोचने-व्यभिचारिणामित्यादि । 'यत्र व्यभिचारिणां स्वस्वविभावादिबलादलक्ष्य. क्रमतया व्यवधिवन्ध्यैव प्रतिपत्तिरित्यन्वयः । व्यवधिवन्ध्या अव्यवधाना । पूर्वोक्तं स्मारयति-पूर्वमित्यादि । इत्यादि विस्तरतः पूर्वमुक्तं हीति सम्बन्धः । 'तस्मादयमन्यो ध्वनेः प्रकार' इत्यन्तवृत्तिग्रन्थस्य सारार्थमाह-एतदुक्तमित्यादि । सर्वः अलक्ष्य क्रमस्य इतिच्छेदः । स्थायिगतेभ्यः स्थायिसम्बन्धिभ्यः । 'निर्वाणे:- त्यादि कुमारसम्भवतृतीय सर्गस्थम्। इत्यादावित्यादिपदेन 'आवर्जिता किञ्चिदिवे'त्यादेः


 १. विश्वनाथस्तु एवं वादिनीति पर्व अवहित्थायामुदाहार्षीत् । उभयोरत्र सन्देह इति तु युक्तम् ।