पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४७
द्वितीयोद्द्योतः


 ये पुष्णन्ति सरोरुहश्रियमपि क्षिप्ताब्जभासश्च ये ।

ये मूर्धस्ववभासिनः क्षितिभृतां ये चामराणां शिरा.


 स्याक्रामन्त्युभयेऽपि ते दिनपतेः पादाः श्रिये सन्तु वः ॥

एवमन्येऽपि शब्दशक्तिमूलानुस्वानरूपव्यङ्गयध्वनिप्रकाराः सन्ति ते


सहृदयैः स्वयमनुसर्तव्याः । इह तु ग्रन्थविस्तरभयान्न तत्प्रपञ्चः कृतः ।

अर्थशाक्त्युद्भवस्त्वन्यो यत्रार्थः स प्रकाशते ।
यस्तात्पर्येण वस्त्वन्यव्द्यनक्त्युक्तिं विना स्वतः ॥२२॥


लोचनम्

नखैरुद्भासन्ते येऽवश्यं खे गगने न उद्भासन्ते । उभये रश्म्यात्मानोऽङ्गुलीपार्ण्ष्याद्य- वयविरूपाश्चेत्यर्थः ॥ २१ ॥

 एवं शब्दशक्त्युद्भवं ध्वनिमुक्त्वार्थशक्त्युद्भवं दर्शयति-अर्थेति । अन्य इति शब्दशक्त्युद्भवात् । स्वतस्तात्पर्येणेत्यभिधाव्यापारनिराकरणपरमिदं पदं ध्वननव्या- पारमाह न तु तात्पर्यशक्तिम् । सा हि वाच्यार्थप्रतीतावेवोपक्षीणेत्युक्तं प्राक् । अनेनै-

बालप्रिया

खमिति । खमाकाशम् । ये किरणाः लूनं विनाशितं तमस्तिमिरं पापञ्च यैस्ते । ये वेति । ये चरणाः । नखोद्भासिन इत्यस्य वाच्यं व्यङ्गयञ्चार्थमाह-नखैरित्यादि । ये किरणाः, सरोरुहाणां पद्मानां श्रियं कान्ति पुष्णन्ति ये चरणाः । क्षिप्तेति । अधः कृतपद्मकान्तयः विनाशितपद्मकान्तयश्च ये किरणाः, क्षितिभृता पर्वतानाम् मूर्धसु शृङ्गेषु शिरस्सु च ये चरणाः । अमरराणां देवानाम् शिरांसि आक्रामन्ति प्रणामकाले स्पृशन्ति तेष्वनवभासिनश्च । लोचने-अङ्गुलीत्यादि । चरणा इत्यर्थः । अत्र लूनत- मस्त्वादिधर्मैः किरणतुल्यानां दिनपतेश्चरणानां गगनानुद्भासित्वादिभिः किरणेभ्यो व्य- तिरेको ध्वनित इति बोध्यम् ॥ २१ ॥

 'अर्थ'त्यादि कारिकायां 'अन्यः अर्थशक्त्युद्भवस्तु तत्र भवति, यत्र स अर्थः प्रकाशते, य उक्तिं विना स्वतस्तात्पर्येण अन्यद्वस्तु व्यनक्ती'त्यन्वयः। कस्मादन्य इत्य- त्राह लोचने-शब्देति । स्वतस्तात्पर्येणेत्येतद्वयाचष्टे-स्वत इत्यादि। इतीदमिति सम्बन्धः । इदं पदमिति च पाठः। सेति । तात्पर्यशक्तिरित्यर्थः। अनेनेत्यादि । स्वतस्तात्पर्येणेत्यस्य विवरणं वृत्तौ-‘स्वसामर्थ्यादि'तीति भावः । 'शब्दव्यापार मिति । अभिधामित्यर्थः । वृत्तौ लीलेत्यादि । इदमधोमुखत्वस्याप्युपलक्षणम् । 'प्रकाशय- तीति । अनुभाववत्वाद्वयञ्जयतीत्यर्थः । यदि लज्जात्मकव्यभिचारिप्रतीतिस्तर्ह्ययमल. क्ष्यक्रमव्यङ्गयस्यैव ध्वनेर्विषयो न तु वस्तुध्वनेरिति शङ्कते-'न चेत्यादि । समाधत्ते- 'यत' इत्यादि । नन्वत्र व्यभिचारिणो वाच्यत्वरूपसाक्षाच्छब्दनिवेदितत्वस्य कथनम.