पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४६
सटीकलोचनोपेतध्वन्यालोके


श्लेषस्य वा विषयत्वम् । यथा तत्रैव-

 'सयवाय इव विरोधिनां पदार्थानाम् । तथाहि-सन्निहितबालान्धः कारापि भास्वन्मूर्तिः' इत्यादौ ।

यथा वा ममैव-

सर्वैकशरणमक्षयमधीशमीशं घियां हरिं कृष्णम् ।
चतुरात्मानं निष्क्रियमरिमथनं नमत चक्रधरम् ॥

 मत्र हि शब्दशक्तिमूलानुस्वानरूपो विरोधः स्फुटमेव प्रतीयते ।

एवंविधो व्यतिरेकोऽपि दृश्यते । यथा ममैव-

 खं येऽत्युज्ज्वलयन्ति लुनतमसो ये वा नखोद्भासिनो


लोचनम्

 च्यालङ्कृतेः वाच्यालङ्कृतित्वस्येत्यर्थः । तत्रैव विरोधे श्लेषे वा वाच्यालङ्कारत्वं सुवच. मिति यावत् । बालेषु केशेष्वन्धकारः कार्ष्ण्यं, बालः प्रत्यग्रश्चान्धकारस्तमः ।

 ननु मातङ्गेत्यादावपि धर्मद्वये यश्चकारः स विरोधद्योतक एव । अन्यथा प्रतिधर्म सर्वधर्मान्ते वा न क्वचिद्वा चकारः स्यात् यदि समुच्चयार्थः स्यादित्यभिप्रायेणोदाह. रणान्तरमाह-यथेति । शरणं गृहमक्षयरूपमगृहं कथम् । यो न धीशः स कथं धियामीशः। यो हरिः कपिलः स कथं कृष्णः । चतुरः पराक्रमयुक्तो यस्यात्मा स कथं निष्क्रियः। अरीणामरयुक्तानां यो नाशयिता स कथं चक्रं बहुमानेन धारयति । विरोध इति । विरोधनमित्यर्थः। प्रतीयत इति । स्फुटं नोच्यते केनचिदिति भावः।

बालप्रिया

वाच्यालकृतित्वस्येति । तथा च विरोधश्लेषसङ्करस्य वाच्यालङ्कृतित्वनिरूपितं विषयत्वमिति वाक्यार्थः। विषयत्वमत्राश्रयत्वं बोध्यम् । फलितमाह-तत्रैवे. त्यादि । भास्वन्मूर्तिः प्रकाशमानतनुः सूर्यमूर्तिश्च ।

 सर्वेत्याद्युदाहरणान्तरमवतारयति-नन्वित्यादि । धर्मद्वये यश्चकार इति । मातङ्गगामिन्यश्शीलवत्यश्च गौर्यो विभवरताश्चेत्यादौ धर्मद्वयवाचकान्ते यश्चकार इत्यर्थः । एवकारेण समुच्चयद्योतकत्वव्यवच्छेदः । उक्तार्थे हेतुमाह-अन्यथेत्यादि । अन्यथा विरोधद्योतकत्वाभावे तदेति शेषः । अन्यथा चकारो यदि समुच्चयार्थस्स्यात्तदा प्रतिधर्म सर्वधर्मान्ते वा स्यात् , क्वचिद्वा न स्यादित्यन्वयः। सर्वधर्मान्त इत्यत्र सर्वशब्दान्त इति च पाठः । चकारस्यात्र समुच्चयार्थकत्वे “घटञ्च पटञ्च पुस्तकञ्चानय, घट पट पुस्तकञ्चानय, घटं पटं पुस्तकमानय इतिवत्प्रयोगस्यादित्यर्थः । गृहमगृ. हमित्यादि विरुद्धार्थकथनम् । शरणं रक्षितारम् । अक्षयं नाशरहितमित्याद्यविरुद्धार्था बोध्याः । विरोधनमिति । विरोधनक्रियेत्यर्थः । स्फुटमिति । निस्सन्देहमित्यर्थः । प्रतीयत इत्यस्य ध्वन्यत इत्यर्थ इत्याह-नोच्यते केनचिदिति ।