पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४५
द्वितीयोद्द्योतः


चालङ्काराः शब्दशक्तिमूलानुस्वानरूपव्यङ्गथे ध्वनौ सम्भवन्त्येव । तथा हि विरोधोऽपि शब्दशक्तिमूलानुस्वानरूपो दृश्यते । यथा स्थाण्वीश्वराख्यज. नपदवर्णने भट्टबाणस्य-

 'यत्र च मातङ्गगामिन्यः शीलवत्यश्च गौर्यों विभवरताश्च श्यामाः पद्मरागिण्यश्च धवलद्विजशुचिवदना मदिरामोदिश्वसनाश्च प्रमदाः'।

 अत्र हि वाच्यो विरोधस्तच्छायानुग्राही वा श्लेषोऽयमिति न शक्यं वक्तुम् । साक्षाच्छब्देन विरोधालङ्कारस्याप्रकाशितत्वात् । यत्र हि साक्षा- च्छब्दावेदितो विरोधालङ्कारस्तत्र हि श्लिष्टोक्तौ वाच्यालङ्कारस्य विरोधस्य


लोचनम्

भाव इति । तेनोपमारूपेण व्यतिरेचननिह्ववादयो व्यापारमात्ररूपा एवात्रास्वादप्रतीतेः प्रधानं विश्रान्तिस्थानं, न तूपमेयादीति सर्वत्रालङ्कारध्वनौ मन्तव्यम् । सामर्थ्या- दिति। ध्वननव्यापारादित्यर्थः ।

 मातङ्गेति । मातङ्गवद्गच्छन्ति तान् शबरांश्च गच्छन्तीति विरोधः। विभवेषु रताः विगतमहादेवे स्थाने च रताः। पद्मरागरत्नयुक्ताः पद्मसदृशलौहित्ययुक्ताश्च । धवलैर्द्विजैर्दन्तैः शुचि निर्मलं वदनं यासां धवलद्विजवदुत्कृष्टविप्रवच्छुचि वदनं च । यासाम् । यत्र हीति । यस्यां श्लेषोक्तौ काव्य रूपायां, तत्र यो विरोधः श्लेषो वेति सङ्करः तस्य विषयत्वम् । स विषयो भवतीत्यर्थः । कस्य ? वाच्यालङ्कारस्य वा-

बालप्रिया

तीयमानमेवेत्यर्थः । अर्थः भावार्थः । तेनेति । उपमात्मकोपमानोपमेयभावकल्पनस्य कथनात्तस्य उपलक्षणत्वाच्चेत्यर्थः । उपमारूपणेत्यादि । उपमा- रूपकादिध्वनिस्थले उपमितिरूपणादिप्रतीतिक्रिया एवेत्यर्थः । मातङ्गवदिति । गजवदित्यर्थः । शबरांश्चेति । चण्डालांश्चेत्यर्थः । इति विरोध इति । चण्डाल. गमनरूपार्थस्य सद्वृत्तरूपशीलेन विरोध इत्यर्थः। आद्येनार्थेन च तत्परिहारः। एवमुप- र्यपि बोध्यम् । 'गौर्यः गौरवर्णाः पार्वत्यश्च । 'श्यामाः श्यामवर्णाः यौवनवत्यश्च । वृत्तौ–'साक्षाच्छब्देनाऽप्रकाशितत्वादिति । शीलवत्यश्चेत्यादौ च काराणां समुच्च• यार्थकत्वादिति भावः। वेति सङ्कर इति । विरोधस्य श्लेषस्य वेत्यत्र वाकारस्तत्स- ङ्करद्योतक इत्यर्थः । तस्य विषयत्वमित्यस्यैव विवरणम्-स इत्यादि । वाच्या. लङ्कारस्येत्यस्य विषयत्वमित्यनेनान्वयमाकाङ्क्षापूर्वकं दर्शयति-कस्येत्यादिना । वाच्यालङ्कारस्येत्यस्य यथाश्रुतार्थमाह-वाच्यालङ्कृतेरिति । विवक्षितमाह--