पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४४
सटीकलोचनोपेतध्वन्यालोके


यथा वा-

दत्तानन्दाः प्रजानां समुचितसमयाकृष्टसृष्टैः पयोभिः
पूर्वाह्ने विप्रकीर्णा दिशि दिशि विरमत्यह्नि संहारभाजः ।
दीप्तांशोदीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो
गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ।

 एषूदाहरणेषु शब्दशक्त्या प्रकाशमाने सत्यप्राकरणिकेऽर्थान्तरे वाक्य. स्यासम्बद्धार्थाभिधायित्वं मा प्रसाङ्क्षीदित्यप्राकरणिकप्राकरणिकार्थयोरुपमा- नोपमेयभावः कल्पयितव्यः सामर्थ्यादित्याक्षिप्तोऽयं श्लेषो न शब्दोपा. रूढ इति विभिन्न एव श्लेषादनुस्वानोपमव्यङ्गयस्य ध्वनेर्विषयः । अन्येऽपि


लोचनम्

शपदेनैवासम्बद्धता निराकृता । 'येन ध्वस्त' इत्यत्रासम्बद्धता नैव भाति । 'तस्या विनापि' इत्यत्रापिशब्देन 'श्लाघ्या' इत्यत्राधिकशब्देन 'भ्रमि' इत्यादौ च रूपके- णासम्बद्धता निराकृतेति तात्पर्यम् । पयोभिरिति पानीयैः क्षीरेश्च । संहारो ध्वंसः, एकत्र ढौकनं च । गोवा रश्मयः सुरभयश्च ।

 असम्बद्धार्थाभिधायित्वमिति । असंवेद्यमानमेवेत्यर्थः । उपमानोपमेय.

बालप्रिया

तद्गोपनार्थतयेति भावः । अनेन तत्र रूपणादिकं नास्तीति चावेदितम् । नैव भा- तीति। द्वयोरपि स्तुत्यतया प्रकृतत्वादिति भावः। 'तात्पर्यमित्यन्तं 'इतरे त्विति मतम् । एतन्मतानुरोधिनः कुवलयानन्दकारादयः। 'उन्नत' इति । प्रोल्लसन् हारो यत्र, प्रोल्ल- सन्ती धारा यत्र च सः। कालागरुणा स इव च मलीमसः नीलः पयोधरः स्तनः जल- धरश्च । तस्याः कामिन्याः प्रावृषश्च। के युवानं पथिकञ्च । 'दत्तानन्दा' इति सूर्यशत- कस्थम् । समुचितसमये पूर्वमाकृष्टानि पश्चात्सृष्टानि तैः दीप्तांशोः सूर्यस्य पावनानां परमुत्कृष्टं वर्तमानाः । लोचने व्याख्येयानि पदानि व्याचष्टे-पयोभिरित्यादि। रश्मिपक्षे पानीयैरिति सुरभिपक्षे क्षीररिति ।

 वृत्तौ 'असम्बद्धार्थाभिधायित्व मिति । प्रकृतार्थेनासम्बद्धो योऽर्थस्तदभिधायि- त्वमित्मर्थः । 'मा प्रसाङक्षीदिति । प्रसक्तिविषयो मा भूदित्यर्थः । अत्रेष्टापत्तिं परिहर्तुं भावमाह-असंवेद्यमानमेवेति । असम्बद्धार्थाभिधायित्वं सहृदयैरप्र.


१.गौर्नाऽऽदित्ये बलीवर्दै ऋतुभेदर्षिभेदयोः ।
स्त्री तु स्यादिशि भारत्यां भूमौ च सुरभावपि ॥
पुंस्त्रियोः स्वर्गवजाम्बुरश्मिरबाणलोमसु ॥ इति केशवः ।