पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४३
द्वितीयोद्द्योतः


लोचनम्

व्यापारादेव शब्द आनीतः, तत्र शब्दान्तरबलादपि तदर्थान्तरं प्रतिपन्नं प्रतीयमा. नमूलत्वात्प्रतीयमानमेव युक्तम्' इति ।

 इतरेतु-'द्वितीयपक्षव्याख्याने यदर्थसामर्थ्यं तेन द्वितीयाभिधैव प्रतिप्रसूयते, ततश्च द्वितीयोऽर्थोऽभिधीयत एव न ध्वन्यते, तदनन्तरं तु तस्य द्वितीयार्थस्य प्रतिपन्नस्य प्रथमार्थेन प्राकरणिकेन साकं या रूपणा सा तावद्भात्येव, न चान्यतः शब्दादिति सा ध्वननव्यापारात् । तत्राभिधशक्तोः कस्याश्चिदप्यनाशङ्कनीयत्वात् । तस्यां च द्वितीया शब्दशक्तिर्मूलम् । तया विना रूपणाया अनुत्थानात् । अत एवालङ्कारध्वनिरयमिति युक्तम् । वक्ष्यते च 'असम्बद्धार्थाभिधायित्वं मा प्रसाङ्क्षीत्? इत्यादि । पूर्वत्र तु सले.

बालप्रिया

यथा-"काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन् किमुत्तरम् ।
कथमुक्तं न जानासि कदर्थयसि यत्सखे ॥ इति ।

 अत्र कदर्थयसीत्येतत् 'कथ' वर्णाभ्यामुक्तं दर्यसीत्युत्तरम् । आदिपदेन “येन ध्वस्ते त्यादिसङ्ग्रहः । वाच्येति । श्लेषादिवाच्यालङ्कार इत्यर्थः । द्वयोरर्थयोः प्रकृत- त्वादिति भावः । यत्रेति । कुसुमसमय मित्यादावित्यर्थः । ध्वननव्यापारादेवेति । अभिधायाः प्रकृतार्थे नियमनेन व्यञ्जकत्वादेवेत्यर्थः । शब्दान्तरबलादिति । शब्दा- न्तरस्याभिधाशक्तरित्यर्थः । प्रतिपन्नमपीत्यन्वयः । प्रतीयेति । प्रतीयमानः ध्वननाद् गम्यमानः शब्दः मूलं यस्य तत्वादित्यर्थः। ध्वनिव्यापारमूलकत्वादिति यावत् । प्रतीयमानमेव व्यङ्गयमेव ।

 द्वितीयपक्षव्याख्याने इति । 'अन्ये त्विश्त्याद्युक्तव्याख्यान इत्यर्थः । तेनेति । अर्थसामर्थ्येनेत्यर्थः । द्वितीयाभिधेति । द्वितोयार्थाभिधेत्यर्थः। प्रतिपन्नस्य तस्य द्वितीयार्थस्येति सम्बन्धः । रूपणेति । अभेदारोप इत्यर्थः । आरोप्यमाणाभेद इति यावत् । इदमुपमादेरुपलक्षणम् । सा तावदिति । सा रूप- णा । न चेत्यादि । भातीत्यनुषङ्गः । शब्दादन्यस्मान्न भातीत्यर्थः । किन्तु शब्दादे- वेति भावः। तत्रेति। रूपणायामित्यर्थः । तस्यामिति। रूपणायामित्यर्थः । अनुत्थानादिति । प्रतियोगिभूतस्य द्वितीयार्थस्याप्रतीत्येति भावः । अत एव रूपणादिमात्रस्य व्यङ्गयत्वादेव । अलङ्कारेति । रूपकादीत्यर्थः । इति युक्तमिति । इति वचनं युज्यत इत्यर्थः । अन्यथा द्वितीयार्थस्य व्यङ्गयत्वेन वस्तुध्वनिव्यवहारोऽपि स्यादिति भावः । वक्ष्यत इति । वृत्ताविति शेषः । तत्र उपमानोपमेयभावः कल्प. यितव्य इत्युक्त्या तदंशस्यैव व्यङ्ग्यत्वज्ञापनादिति भावः। शब्दशक्त्या प्रकाशमाने इति ग्रन्थोऽप्येतत्पक्षानुकूलः प्रसङ्गादाह- -पूर्ववेत्यादि । पूर्वत्र "दृष्टया केशवे”. त्यादौ । निराकृतेति। तत्र हि द्वितीयार्थ एव प्राधान्येन विवक्षितः, प्रथमार्थस्तु