पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

थाविधेऽर्थान्तरे दृष्टतदभिधाशक्तेरेव प्रतिपत्तुर्नियन्त्रिताभिधाशक्तिकेभ्य एतेभ्यः प्रति- पत्तिर्ध्वननव्यापारादेवेति शब्दशक्तिमूलत्वं व्यङ्ग्यत्वं चेत्यविरुद्धम्' इति ।

 अन्ये तु–'साभिधैव द्वितीया अर्थसामर्थ्य ग्रीष्मस्य भीषणदेवताविशेषसादृश्या. त्मकं सहकारित्वेन यतोऽवलम्बते ततो ध्वननव्यापाररूपोच्यते' इति ।

 एके तु-'शब्दश्लेषे तावद्भेदे सति शब्दस्य, अर्थश्लेषेऽपि शक्तिभेदाच्छब्दभेद इति दर्शने द्वितीयः शब्दस्तत्रानीयते । स च कदाचिदभिधाव्यापारात् यथोभयोरुत्त- रदानाय 'श्वेतो धावति' इति; प्रश्नोत्तरादौ वा तत्र वाच्यलङ्कारता । यत्र तु ध्वनन-

बालप्रिया

नामित्यर्थः । अर्थान्तरे जगत्संहर्तृदेवताविशेषाद्यर्थे । दृष्टं ज्ञातम् । दृष्टेति । दृष्टा ज्ञाता तदभिधाशक्तिर्येन तस्यैत्यर्थः । नियन्त्रितेति । प्राकरणिकार्थे प्रकरणादिना नियमितेत्यर्थः । एतेभ्यः महाकालादिशब्देभ्यः। प्रतिपत्तिः अर्थान्तरप्रतीतिः । इतीति हेतौ । व्यङ्गयत्वञ्चेति । यतोऽर्थान्तरे गृहीततत्तच्छब्दाभिधाशक्तिकस्यैव प्रतिपत्तुस्तदर्थान्तरस्य प्रतीतिर्भवति, ततश्शब्दशक्तिमूलत्वं, यतश्च सा प्रतीतिरमि- धाया विरम्यव्यापाराभावेन ध्वननव्यापारादेव, ततस्तदर्थस्य व्यङ्गयत्ववेत्यर्थः । मतमिदं काव्यप्रकाशकाराद्यभ्युपगतम् ।

 मतान्तरमाह-अन्य इत्यादि । साभिधव द्वितीयेति । गृहीतपूर्वा द्विती- यार्थाभिधैवेत्यर्थः । ध्वननव्यापाररूपोच्यत इति सम्बन्धः । कुत इत्यत्राह-अर्थेत्या. दि। अर्थसामर्थ्य मिति । सामर्थ्याक्षिप्तमिति ग्रन्थेनोक्तमर्थसामर्थ्यमित्यर्थः । तत् किमित्यत्राह-ग्रीष्मस्येत्यादि । भीषणेति । युगोपसंहरणादिना यद्देवताविशेषसा. दृश्यं तदात्मकमित्यर्थः। सहकारित्वेनेति । तदर्थान्तरबोधन इति शेषः । तत इत्यादि । अभिधादयो व्यापारा ह्यर्थबोधानुकूलशक्तिविशेषात्मकाः । सहकारिभेदेन तेषां भेदः । सङ्केतग्रहणमात्रसहकारेण शब्दस्यार्थबोधन शक्तिरभिधा। सङ्केतप्रहणातिरिक्तार्थ- सामर्थ्यादिसहकारेणार्थबोधनशक्तिस्तु ध्वननमतोऽत्र सा ध्वननरूपोच्यत इति भावः ।

 एक इत्यादि । तावदिति सम्प्रतिपत्तौ । शब्दस्य भेदे सतीति सम्बन्धः । भेदस्य सत्वादित्यर्थः । शक्तिभेदादिति । तत्तदर्थबोधानुकूलशक्तिभेदादित्यर्थः । अर्थभेदा- दिति यावत् । तत्रेति । शब्दश्लेषेऽर्थश्लेषे चेत्यर्थः । आनीयत इति । अनुसन्धाने- नेति भावः । सः द्वितीयश्शब्दः । कदाचिदिति । यदार्थद्वयेऽपि प्रकरणादिकं तदे- त्यर्थः । अभिधाव्यापारादिति। अर्थद्वयस्याभिधेयत्वावश्यम्भावादिति भावः । आनीयत इत्यनुषङ्गः । अत्रोदाहरणमाह-यथेत्यादि । उभयोरिति । क इतो धावति, किङ्गुणविशिष्टश्चेति द्वयोः प्रश्नयोरित्यर्थः। श्वेत इति । श्वा इतः श्वेतो धवलश्च । प्रश्नोत्तरादौ वेति ।

"यत्तु पर्यनुयोगस्य निर्भेदः क्रियते बुधैः ।
विदग्धगोष्ठयां वाक्यैर्वा तद्धि प्रश्नोत्तर विदुः ॥ इति लक्षणम् ।