पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४१
द्वितीयोद्द्योतः


 एवज्जातीयकः सर्व एव भवतु कामं वाच्यश्लेषस्य विषयः । यत्र तु सामर्थ्याक्षिप्तं सदलङ्कारान्तरं शब्दशक्त्या प्रकाशते स सर्व एव ध्वनर्वि। षयः । यथा-

 'अत्रान्तरे कुसुमसमययुगमुपसंहरन्नजृम्भत ग्रीष्माभिधानः फुल्लमल्लि. काधवलाट्टहासो महाकालः' । यथा च-

उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः ।
पयोधरभरस्तन्व्याः कं न चक्रेऽभिलाषिणम् ॥


लोचनम्

लङ्कारस्य विषयमवस्थाप्य ध्वनेराह-यत्र त्विति। कुसुमसमयात्मकं यद्युगं मासद्वयं तदुपसंहरन् । धवलानि हृद्यान्यद्वान्यापणा येन तादृक् फुल्लमल्लिकानां हासो विकासः सितिमा यत्र । फुल्लमल्लिका एव धवलाट्टहासोऽस्येति तु व्याख्याने 'जलदभुजगजं' इत्येतत्तुल्यमेतत्स्यात् । महांश्चासौ दिनदैर्ष्य दुरतिवाहतायोगात्कालः समयः । अत्र ऋतुवर्णन प्रस्तावनियन्त्रिताभिधाशक्तयः, अत एव 'अवयवप्रसिद्धः समुदायप्रसिद्धिर्ब. लीयसी' इति न्यायमपाकुर्वन्तो महाकालप्रभृतयः शब्दा एतमेवार्थमभिधाय कृत कृत्या एव । तदनन्तरमर्थावगतिर्ध्वननव्यापारादेव शब्दशक्तिमूलात् । अत्र केचिन्मन्यन्ते-'यत एतेषां शब्दानां पूर्वमर्थान्तरेऽभिधान्तरं दृष्ट ततस्त-

बालप्रिया

धवलानीत्यादि । हास इत्यस्य व्यख्यानं-विकास इति । तस्यैव विवरणं-सिति- मेति । सितस्य भावः सितिमा । यथाश्रुतार्थपरित्यागे बीजमाह-फुल्लेति । इत्येत- त्तुल्यमेतत्स्यादिति । तथाचाभिमतध्वन्युदाहरणं न भवेदिति भावः । महत्वोपपा- दकं-दिनेत्यादि। दिनदैर्ध्यं दुरतिवाहता च तयोर्योगादित्यर्थः। 'सामर्थ्याक्षिप्त' सहकारिभूतेनार्थसामर्थ्येन व्यञ्जितं सत् । 'अलङ्कारान्तरं अलङ्कारविशेषः । 'शब्द- शक्त्या प्रकाशते' प्राधान्येन शब्दशक्त्या भासत इत्यादिवृत्युक्तमुपपादयति-अत्रे. त्यादि । ऋतुवर्णनरूपः ऋतुवर्णनस्य वा यः प्रस्तावः तेन नियन्त्रिताः तत्तदर्थेषु निय मिताः अभिधाशक्तयो येषां ते । अत एव प्रकरणादेव । इति न्यायमिति । यथोक्तं "योगाद्रूढेबलीयस्त्वमिति । एतमेवार्थमिति । पूर्वोक्तार्थमित्यर्थः । तदनन्तरम र्थावगतिरिति । कृतादियुगसमयमुपसंहरन् मल्लिकाधवलमट्टहासं कुर्वन् भयङ्करो महाकाल: महान् जगत्संहर्तृदेवताविशेष इत्याद्यर्थबोध इत्यर्थः ।

 अत्र मतभेदान्दशयति-अत्र केचिदित्यादि। एतेषामिति । महाकालादी.

 ३१ ध्व०