पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४०
सटीकलोचनोपेतध्वन्यालोके


लङ्कारव्यवहार एव । यथा-

दृष्ट्या केशव गोपरागहृतया किञ्चिन्न दृष्टं मया
तेनैव स्खलितास्मि नाथ पतिता किं नाम नालम्बसे ।

एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गति.
र्गोप्यैवं गदितः सलेशमवतागोष्ठे हरिर्वश्विरम् ॥


लोचनम्

 हे केशव, गोधूलिहतया दृष्टया न किञ्चिदृष्टं मया तेन कारणेन स्खलितास्मि मार्गे । तां पतितां सती मां किं नाम कः खलु हेतुर्यन्नालम्बसे हस्तेन । यतस्त्वमेवै- कोऽतिशयेन बलवानिम्नोन्नतेषु सर्वेषामबलानां बालवृद्धाङ्गनादीनां खिन्नमनसां गन्तुमशक्नुवतां गतिरालम्बनाभ्युपाय इत्येवं विधेऽर्थे यदप्येते प्रकरणेन नियन्त्रिता- भिधाशक्तयः शब्दास्तथापि द्वितीयेऽर्थे व्याख्यास्यमानेऽभिधाशक्तिर्निरुद्धा सती सले- शमित्यनेन प्रत्युज्जीविता । अत्र सलेशं ससूचनमित्यर्थः, अल्पीभवनं हि सूचनमेव । हे केशव ! गोप स्वामिन् । रागहृतया दृष्टयेति । केशवगेन उपरागेण हृतया दृष्टयेति वा सम्बन्धः । स्खलितास्मि खण्डितचरित्रा जातास्मि । पतितामिति भर्तृभावं मां प्रति । एक इत्यसाधारणसौभाग्यशाली त्वमेव । यतः सर्वासामबलानां मदनविधुर- मनसामीर्ष्याकालुष्यनिरासेन सेव्यमानः सन् गतिः जीवितरक्षोपाय इत्यर्थः । एवं श्लेषा.

बालप्रिया

 परागपदव्याख्यानं-धूलीति। मार्ग स्खलितास्मीति सम्बन्धः। एकशब्दो मुख्यार्थक इत्याशयेनाह-अतिशयेन बलवानिति । विषमेष्वित्यस्य व्याख्यानम्-निम्नोन्नतेष्वि. ति। खिन्नमनसामित्यस्य भावार्थविवरणम्-गन्तुमित्यादि । एते शब्दा' इति सम्बन्धः। केशवगोपरागादिशब्दा इत्यर्थः । 'प्रकरणेने त्यस्य 'नियन्त्रिते'त्यनेन निरुद्ध त्यनेन च सम्बन्धः । अभिधाशक्तिरिति । एतेषामिति शेषः । प्रत्युज्जीविता प्रतिप्रसा- विता । प्रत्युज्जीवनं विवृणोति-अत्रेत्यादि । सलेश मित्यस्य ससूचनमित्यर्थः । कथं लभ्यत इत्यत्राह-अल्पीति । द्वितीयमर्थं व्याचष्टे हे केशवेत्यादि । केशव गोप इति सम्बोधनद्वयमिति भावः । स्वामिन्निति 'नाथे'त्यस्य विवरणम् । प्रकारान्तरेण आह-केशवगेनेत्यादि । केशवगेन केशवविषयकेण उपरागेण अनुरागेण । पत्युर्भावः पतिता तामित्याह-भर्तृभावमिति । 'अत्रान्तर' इत्यादिगद्यं हर्षचरिते द्वितीयोच्छ्वासे स्थितम् । मासद्वयमिति । चैत्रवैशाखात्मकमासद्वयमित्यर्थः । धव. लान्यट्टानि येन स चासो हासश्च धवलाट्टहासः, फुल्लाः विकसिताः मल्लिकाः फुल्लमल्लिकाः फुल्लमल्लिकानां धवलाट्टहासो यत्र स इति व्यधिकरणो बहुव्रीहिरिति व्याचष्टे-