यथा वा-
साअरविइण्णजोब्वणहत्थालम्बं समुण्णमन्तेहिम् । |
भणितिवशेनैवामिनिष्पन्नशरीरः । यथोदाहृतम् ‘एवंवादिनि' इत्यादि ।
यथा वा-
सिहिपिञ्छकण्णपूरा जाआ वाहस्स गव्विरी ममइ । |
लोचनम्
सादरवितीर्णयौवनहस्तालम्बं समुन्नमभ्द्याम् । |
स्तनौ तावदिह प्रधानभूतौ ततोऽपि गौरवितः कामस्ताभ्यामभ्युत्थानेनोपचर्यते । यौवनं चानयोः परिचारकभावेन स्थितमित्येवं विधेनोक्तिवैचित्र्येण त्वदीयस्तनावलोक नप्रवृद्धमन्मथावस्थः को न भवतीति भङ्गया स्वाभिप्रायध्वननं कृतम् । तव तारुण्ये- नोन्नतौ स्तनाविति हि वचनेन व्यञ्जकता। न केवलमिति । उक्तिवैचित्र्यं तावत्सर्व- थोपयोगि भवतीति भावः ।
शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति । |
शिखिमात्रमारणमेव तदासक्तस्य कृत्यम् । अन्यासु त्वासक्तो हस्तिनोऽप्यमारय.
बालप्रिया
व्यञ्जकत्वमिति । व्यंग्यार्थाः प्रथमोद्योते प्रदर्शिताः । सादरेति । कृत्वेति पाठे तत्पू. रितम् । सादरं वितीर्णो यौवनेन दत्तो यौवनहस्तालम्बो यत्र तद्यथा तथा । समुन्नमद्भां तव स्तनाभ्यां मन्मथस्याप्युत्थानं दत्तमिवेत्यन्वयः। अत्र यौवनादिषु परिजनादिचे. तनवृत्तान्तारोपात्समासोक्तिरुत्प्रेक्षाङ्गमित्याशयेन विवृणोति-स्तनावित्यादि । इति हीत्यादि । इति वचने सति तत्प्रतिपाद्यस्य व्यञ्जकता न हीत्यर्थः। न केवलमिति । इदं प्रतीकधारणम् । स्वतःसम्भवीत्यनेन लोके सम्भाव्यमानोऽपीत्यर्थो विवक्षित इत्या- शयेन वृत्तौ 'य' इत्यादिना विवृतं, तत्र न केवलमित्यादिना गम्यमर्थं दर्शयति- उक्तिवैचित्र्यमित्यादि । उपयोगीति । काव्य इति शेषः । उक्तिवैचित्र्याभावे भाव्यत्वं न भवतीति भावः । शिखीति । गाथेयं तृतीयोद्योते वृत्तिकृता उदाहृत्य व्याख्यास्यते । जायेति । नवपरिणीतेत्यर्थः । प्रसाधनं अलङ्कारः । सप- त्नीनामिति । पूर्वपरिणीतानामित्यर्थः । शिस्वीति । शिखिनां समीपस्थत्वादिति