पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३८
सटीकलोचनोपेतध्वन्यालोके


यथा वा-

चमहिअमाणसकञ्चणपङ्कमणिम्महिअपरिमला जस्स ।
अखण्डिअदाणपसारा बाहुप्पलिहा व्विअ गइन्दा ।।
(खण्डितमानसकाञ्चनपङ्कजनिर्मथितपरिमला यस्य |
अखण्डितदानप्रसरा बाहुपरिघा इव गजेन्द्राः ॥ इति छाया .)

 अत्र रूपकच्छायानुग्राही श्लेषो वाच्यतयैवावभासते ।

 स चाक्षिप्तोऽलङ्कारो यत्र पुनः शब्दान्तरेणाभिहितस्वरूपस्तत्र न


लोचनम्

भुजगशब्दार्थपर्यालोचनाबलादेव विषशब्दो जलमभिधायापि न विरन्तुमुत्सहते, अपि तु द्वितीयमर्थं हालाहललक्षणमाह । तदभिधानेन विनाभिधाया एवासमाप्तत्वात् । भ्रमिप्रभृतीनां तु मरणान्तानां साधारण एवार्थः । निराशीकृतत्वेन खण्डितानि यानि मानसानि शत्रुहृदयानि तान्येव काञ्चनपङ्कजानि । समारत्वात् तैर्हेतुभूतैः । णिम्महि- अपरिमला इति । प्रसृतप्रतापसारा अखण्डितविरणप्रसरा बाहुपरिघा एव यस्य गजेन्द्रा इति । गजेन्द्रशब्दवशाच्चमहिअशब्दः परिमलशब्दो दानशब्दश्च त्रोटनं- सौरभमदलक्षणानर्थान्प्रतिपाद्यापि न परिसमाप्ताभिधाव्यापारा भवन्तीत्युक्तरूपं द्विती. यमप्यर्थमभिदधत्येव ।

 एवमाक्षिप्तशब्दस्य व्यवच्छेद्यं प्रदर्श्यैवकारस्य व्यवच्छेद्यं दर्शयितुमाह- स चेति । उभयार्थप्रतिपादनशक्तशब्दप्रयोगे, यत्र तावदेकतरविषयनियमनकारणम-

बालप्रिया

श्लेषमुपपादयति-भुजगेत्यादि । बलादेवेत्यस्य न विरन्तुमुत्सहते, अपि त्वाहेत्यनेन सम्बन्धः । कुत इत्यत्राह-तद्भीति । साधारण एवेति । तथा च तदंशेऽर्थ- श्लेष इति भावः । निराशीकृतत्वेनेति । आशात्र जयविषयिका बोध्या । काञ्चनपद्म- त्वरूपणे गम्यं हेतुं दर्शयति-ससारत्वादिति । यथा कुमारसम्भवे "ध्रुवं वपुः काश्चनपद्मनिर्मित"मित्यादि । 'निर्मथितपरिमला' इत्यनेन लक्ष्यस्यार्थस्य विवरणम्- प्रसृतेत्यादि । प्रसृतः दिक्षु व्याप्तः प्रतापसारो येषां ते । एवंभूताः यस्य बाहुपरि- घाः गजेन्द्रा एवेति सम्बन्धः । गजेन्द्र विशेषणानि योजयति-गजेत्यादि । शब्द- श्चेति। क्रमेणेति शेषः। उक्तरूपमिति । पूर्वोक्तमित्यर्थः। अभिधत्येवेति । तस्या- र्थस्यापि प्राकरणिकत्वादिति भावः । वृत्तौ 'अत्र रूपके'ति । अत्रेत्यस्य उक्तयोः श्लो- कथोरित्यर्थः।

 प्रतिपत्तिसौकर्यायोक्तवक्ष्यमाणग्रन्थभावार्थ दर्शयति-उभयार्थत्यादि । इति तात्पर्यमित्यन्तेन । उभयोरर्थयोः प्रतिपादने अभिधाने शक्तः समर्थो यः शब्दः तस्य प्रयोगे सति । एकेति । द्वयोरर्थयोरेकतरस्मिन् विषये यन्नियमनं निय-