पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३७
द्वितीयोद्द्योतः


नोपमन्यङ्गयस्य ध्वनेः । अलक्ष्यक्रमव्यङ्गयस्य तु ध्वनेर्वाच्येन श्लेषेण विरोधेन वा व्यञ्जितस्य विषय एव । यथा ममैव-

श्लाध्याशेषतनुं सुदर्शनकरः सर्वाङ्गलीलाजित.
त्रैलोक्यां चरणारविन्दललितेनाकान्तलोको हरिः ।

बिभ्राणां मुखमिन्दुरूपमखिलं चन्द्रात्मचक्षुर्दध.
त्स्थाने या स्वतनोरपश्यदधिकां सा रुक्मिणी वोऽवतात् ।।

 अत्र वाच्यतयैव व्यतिरेकच्छायानुप्राही श्लेषः प्रतीयते । यथा च-

भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छा तमः शरीरसादम् ।
मरणं च जलदभुजगजं प्रसह्यं कुरुते विषं वियोगिनीनाम् ॥


लोचनम्

नियच्छति हरतो हृदयमवश्यमिति हारिणौ। हारो विद्यते ययोस्तौ हारिणाविति । अत एव विस्मयशब्दोऽस्यैवार्थस्योपोद्वलकः । अपिशब्दाभावे तु न तत एवार्थ- द्वयस्याभिधा स्यात् , स्वसौन्दर्यादेव स्तनयोविस्मयहेतुत्वोपपत्तेः । विस्मयाख्यो भाव इति दृष्टान्ताभिप्रायेणोपात्तम् । यथा विस्मयः शब्देन प्रतिभाति विस्मय इत्यनेन शब्देन तथा विरोधोऽपि प्रतिभात्यपीत्यनेन शब्देन । ननु किं सर्व- थात्र धनिर्नास्तीत्याशङ्कयाह-अलक्ष्येति । विरोधेन वेति । वाग्रहणेन श्लेषवि. रोधसङ्करालङ्कारोऽयमिति दर्शयति अनुग्रहयोगादेकतरत्यागग्रहणनिमित्ता- भावो हि वाशब्देन सूच्यते । सुदर्शनं चक्रं करे यस्य । व्यतिरेकपक्षे सुदर्शनौ श्लाघ्यौ करावेव यस्य । चरणारविन्दस्य ललित त्रिभुवनाक्रमणक्रीडनम् । चन्द्ररूपं चक्षुर्धारयन् । वाच्यतयैवेति । स्वतनोरधिकामिति शब्देन व्यतिरेकस्योक्तत्वात् ।

बालप्रिया

नशब्दस्याभिधात्मिकां शक्तिम् । अर्थद्वयमाह-हरत इत्यादि । 'इत्यर्थद्वये' इति सम्ब- न्धः । अत एव अपिशब्दप्रयोगादेव । विस्मयशब्दः द्वितीयान्तविस्मयशब्दः । उपोद्बलकः बोधे सहकारी। एकत्र विरुद्धार्थबोधे हि विस्मयः । उक्तमुपपादयति- अपिशब्दाभावे त्विति। तत एवार्थद्वयस्याभिधा न स्यादित्यन्वयः । तत एव विस्मयशब्दादेव । अभिधा अभिधानम् । कुत इत्यत्राह-स्वेति । वृत्तौ-'विस्म. याख्यो भावः प्रतिामसत' इति किमर्थमुक्तमित्यत्राह-दृष्टान्तेति । शब्देन प्रतिभा- तीत्युक्तस्यैव विवरणम्-विस्मय इत्यादि । प्रतिभातीत्यस्यानुषङ्गः । दर्शयतीत्यत्र हेतुमाह-अनुग्रहयोगादिति । विरोधश्लेषयोरनुग्राह्यानुग्राहकभावादित्यर्थः । एके. ति । एकतरस्य त्यागे ग्रहणे वा यन्निमित्तं तदभाव इत्यर्थः। वाच्यतयैवेत्यस्य व्यतिरेक इत्यनेनापि सम्बन्धी विवक्षित इत्याह-स्वतनोरधिकामितीति । ,