पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३६
सटीकलोचनोपेतध्वन्यालोके


यस्याः शशिमच्छिरो हर इति स्तुत्यं च नामामराः
पायात्स स्वयमन्धकक्षयकरस्त्वाx सर्वदोमाधवः ॥

 नन्वलकारान्तरप्रतिभायामपि श्लेषव्यपदेशो भवतीति दर्शितं भट्टोद्भ. टेन, तत्पुनरपि शब्दशक्तिमूलो ध्वनिर्निरवकाश इत्याशङ्कयेदमुक्तं 'आक्षिप्तः' इति । तदयमर्थः-यत्र शब्दशक्त्या साक्षादलङ्कारान्तरं वाच्यं सत्प्रति- भासते स सर्वः श्लेषविषयः । यत्र तु शब्दशक्त्या सामर्थ्याक्षिप्तं वाच्य- व्यतिरिक्तं व्यङ्गयमेवालङ्कारान्तरं प्रकाशते स ध्वनेर्विषयः। शब्दशक्त्या साक्षादलङ्कारान्तरप्रतिभा यथा-

तस्या विनापि हारेण निसर्गादेव हारिणौ ।
जनयामासतुः कस्य विस्मयं न पयोधरौ ।।

 अत्र शृङ्गारव्यभिचारी विस्मयाख्यो भावः साक्षाद्विरोधालङ्कारश्च प्रतिभासत इति विरोधच्छ।यानुग्राहिणः श्लेषस्यायं विषयः, न त्वनुस्वा.


लोचनम्

मूर्धापहारक इति । स त्वां माधवो विष्णुः सर्वदः पायात् । कीदृक् ? अन्धकनाम्नां जनानां येन क्षयो निवासो द्वारकायां कृतः। यदि वा मौसले इषीकाभिस्तेषां क्षयो विनाशो येन कृतः । द्वितीयोऽर्थः-येन ध्वस्त कामेन सता बलिजितो विष्णोः सम्बन्धी कायः पुरा त्रिपुरनिर्दहनावसरेऽस्त्रीकृतः शरत्वं नीतः। उद्वृत्ता भुजङ्गा एव हारा वलयाश्च यस्य, मन्दाकिनी च योऽधारयत् , यस्य च ऋषयः शशिमच्चन्द्रयुक्तं शिर आहुः, हर इति च यस्य नाम स्तुत्यमाहुः, स भगवान्स्वयमेवान्धकासुरस्य विना- शकारी त्वां सर्वदा सर्वकालमुमाया धवो वल्लभः पायादिति । अत्र वस्तुमात्रं द्वितीयं प्रतीतं नालङ्कार इति श्लेषस्यैव विषयः । आक्षिप्तशब्दस्य कारिकागतस्य व्यवच्छेद्यं दर्शयितु चोद्येनोपक्रमते-नन्वलङ्कारेत्यादिना ।

 तस्या विनापीति । अपिशब्दोऽयं विरोधमाचक्षाणोऽर्थद्वयेऽप्यभिधाशक्ति

बालप्रिया

इति । शेषं स्पष्टम् । वस्तुमात्रमित्यादि । माधवस्योमाधवस्य च स्तोतव्यत्वेन प्रकृतत्वात्तयोः साम्यं न विवक्षितमिति भावः । वृत्तौ 'साक्षादलङ्कारान्तरं वाच्यमिति । अलङ्कारान्तरमलङ्कारविशेषः । वाच्यमभिधेयमिति तदर्थः ।

 अपिशब्दोऽयमिति । हारेण विनापीत्यपिशब्द इत्यर्थः। विरोधं हारतदभावयो. रेकत्र वृत्तित्वरूपम् । आचक्षाणः बोधयन् । अर्थद्वये वक्ष्यमाणे। अभिधाशक्तिं हारि-