पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३१
द्वितीयोद्योतः


श्लेषमात्राच्चारुत्वप्रतीतिरस्तीति श्लेषस्य व्यतिरेकाङ्गत्वेनैव विवक्षितत्वात् न स्वतोऽलङ्कारतेत्यपि न वाच्यम् । यत एवंविधे विषये साम्यमात्रादपि सुप्रतिपादिताच्चारुत्वं दृश्यत एव । यथा-

आक्रन्दाः स्तनितैर्विलोचनजलान्यश्रान्तधाराम्बुभि-
स्तद्विच्छेदभुवश्च शोकशिखिनस्तुल्यास्तडिद्विभ्रमैः ।

अन्तमें दयितामुखं तव शशी वृत्तिः समैवावयो.
स्तत्किं मामनिशं सखे जलघर त्वं दग्धुमेवोद्यतः ।।

इत्यादौ ।

लोचनम्

पढुवानं परं श्लेषं विनोपमामात्रेण चारुत्वसम्पन्नमुदाहरणान्तरं दर्शयन्निरुत्तरीकरोति- यत इत्यादिना । उदाहरणश्लोके तृतीयान्तपदेषु तुल्यशब्दोऽभिसम्बन्धनीयः। अन्य. त्सर्वं 'रक्तस्त्वं' इतिवद्योज्यम् ।

बालप्रिया

ल्यनेन सम्बन्धः । कथमित्यत्राह-श्लेषमित्यादि । श्लेषं विना उपमामात्रेणेति । मात्रपदार्थविवरणं श्लेषं विनेति । श्लेषरहितोप्रमागर्भव्यतिरेकेणेति यावत् । वृत्तौ- 'एवमित्यादि । 'एवं विधे विषये' व्यतिरेकविषये। 'साम्यमात्रादिति । मात्रशब्देन श्लेषव्यवच्छेदः साम्यशब्दस्योरमागर्भव्यतिरेकोऽर्थः । 'आक्रन्दा' इत्यादिस्थले श्लेषं विना उपमागर्भव्यतिरेकेणैव चारुत्वस्य दर्शना'द्रक्तस्वमित्यादावपि श्लेषस्य व्यति- रेकानुग्राहकत्वं विना पृथगलङ्कारत्वं भवत्येवेति परिहारग्रन्थाभिप्रायः । अनेन प्रबन्ध- प्रवृत्तोऽपीत्यादि पूर्वोक्तं निर्व्यूढम् । तुल्यशब्द इति । मे आक्रन्दाः तव स्तनितै. तैस्तुल्या इत्यादि सम्बन्धनीयमित्यर्थः । श्रोतृजनमनःक्षोभकारित्वादिना तुल्यत्वम् । तस्याविच्छेदो विरहः तस्माद्भवन्तीति तथा । शोका एव शिखिनोऽनयः । 'अन्तरि'- त्यादि । अत्र मुखशशिनौस्तुल्यत्वं गम्यम् । 'वृत्तिरित्यादि । उक्तप्रकारेणावयोर्धर्मों तुल्यावेवेत्यर्थः । तदिति । अस्मद्धर्मयोस्तुल्यत्वेनावोस्तुल्यत्वादित्यर्थः । अत एवाह-सखे' इति । अनेन दहनमनुचितमनुकूलाचरणमेव युक्तमिति, 'जलधरे त्य- नेन सन्तापहरणसामर्थ्यं च द्योत्यते । अनिशं दग्धुं पीडयितुमेव, न तु कदाचित्सुख- यितुमपि । 'कि' कुतः । 'उद्यतः' अयमुद्यमो न युक्तः, अहन्तु नैवंविध इति भावः। अत्र बन्धु जनपीडाकारित्वेन जलधरस्य स्वस्माद्वयतिरेक उक्तः, साम्यं चादावुक्तम् । श्लेषश्च नास्तीति बोध्यम् । योज्यमिति । स्तनितादिकमाक्रन्दनादिहेतुतयापि योज- नीयमित्यर्थः । वृत्तौ-आक्षिप्तमिति । उक्तमित्यर्थः। रसपुष्ट्ये परमनिर्व्यूंढच्चे. त्यन्वयः।