पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३०
सटीकलोचनोपेतध्वन्यालोके


गाढोद्गीर्णोज्ज्वलभीरहनि न रहिता नो तमःकज्जलेन
प्राप्तोत्पत्तिः पतङगान्न पुनरुपगता मोषमुष्णात्विषो वो

वर्तिः सैवान्यरूपा सुखयतु निखिलद्वीपदीपस्य दीप्तिः ।।
अत्र हि साम्यप्रपञ्चप्रतिपादनं विनैव व्यतिरेको दर्शितः । नात्र


लोचनम्

तम एव कज्जलं तेन । न नो रहिता अपि तु रहितैव । दीपवर्तिस्तु तमसापि युक्ता भवति । अत्यन्तमप्रकटत्वात्कज्जलेन चौपरिचरेण । पताङ्गादर्कात् । दीप- वर्तिः पुनः शलभाद्ध्वंसते नोत्पद्यते । साम्येति । साम्यस्योपमायाः प्रपञ्चेन प्रबन्धेन यत्प्रतिपादनं स्वशब्देन तेन विनापीत्यर्थः । एतदुक्तं भवति-प्रतीयमानैवो. पमा व्यतिरेकस्यानुग्राहिणी भवन्ती नाभिधानं स्वकण्ठेनापेक्षते । तस्मान्न श्लेषोपमा व्यतिरेकस्यानुग्राहित्वेनोपात्ता । ननु यद्यप्यन्यन्त्र नैवं, तथापीह तत्प्रावण्येनैव सोपात्ता; तदप्रावण्ये स्वयं चारुत्वहेतुत्वाभावादिति श्लेषोपमात्र पृथगलङ्कारभावमेव न भजते । तदाह-नात्रेति । एतदसिद्धं स्वसंवेदनयबाधितत्वादिति हृदये गृहीत्वा स्वसंवेदनम-

बालप्रिया

आविर्भाविता उज्वला श्रीर्यया सा । गम्यं वर्तेः वैधर्म्यं दर्शयति-दीपवर्तिरित्यादि । तमश्च कज्जलं च तमःकज्जलमित्यर्थाभिप्रायेणाह-तमसापीत्यादि । उपरिचरेण कज्जलेन च युक्तस्यन्वयः । द्वाभ्यां युक्तत्वे ज्ञापकम् । अत्यन्तमप्रकटत्वादिति । पतङ्गात्प्राप्तोत्पत्तिः पतङ्गान्मोषं पुनर्नोपगतेत्यत्र वर्तिगतं वैधर्म्य॑माह-शलभादिति । 'पतङ्गौ सूर्यशलभावि'त्यमरः । एवं दीपवर्तिरहनि मन्दश्रीरिति च बोध्यम् । स्व. शब्देन प्रतिपादनमिति सम्बन्धः । भावमाह-एतदित्यादि । अनुग्राहिणीति । व्यतिरेकस्योपमागर्भत्वादिति भावः । स्वकण्ठेन स्वशब्देन । उपात्ता स्वशब्दे- नाभिहिता । नन्वित्यादि । अन्यत्रेति । 'नोकल्पापाये'त्यादावित्यर्थः । इहेति । रक्तस्त्वमित्यादावित्यर्थः । तत्प्रावण्येन व्यतिरेकपरत्वेन, व्यतिरेकानुग्राहकत्वेनेति यावत् । सा श्लेषोपमा, उपमादेतुः श्लेष इति यावत् । स्वयमिति। तस्या इति शेषः । तस्याः स्वयमेवेत्यर्थः । इतीति हेतौ । अत्र 'रक्तस्त्वमित्यादौ । पृथगि- त्यादि । पृथगलङ्कारभावं न भजत एवेत्यन्वयः । किन्तु व्यतिरेकेण सहानुग्रह्यानुग्रा- हकभावं भजते इति भावः । तदाहेति । नात्रेत्यादिग्रन्थेन तदाशङ्कां दर्शयतीत्यर्थः । वृत्तौ अत्र श्लेषस्य व्यतिरेकाङ्गत्वेनैव विवक्षितत्वात् श्लेषमात्राच्चारूत्वप्रतीतिर्नास्ति इति न स्वतोऽलङ्कारता इत्यपि न वाच्यमित्यन्वयः। श्लेषस्येत्यस्य न स्वतोऽलङ्का- रतेत्यनेनापि सम्बन्धः । स्वत इत्यस्य पृथगित्यर्थः । लोचने-एतदित्यादि । एतत् शङ्कितम् । स्वसंवेदनेति । स्वानुभवेत्यर्थः । परं पूर्वपक्षिणम् । निरुत्तरीकरोती-