पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२९
द्वितीयोद्द्योतः


त्यादौ । अत्र ह्यन्य एव शब्दः श्लेषस्य विषयोऽन्यश्च व्यतिरेकस्य । यदि चैवंविधे विषयेऽलङ्कारान्तरत्वकल्पना क्रियते तत्संसृष्टेर्विषयापहार एव स्यात् । श्लेषमुखैनैवात्र व्यतिरेकस्यात्मलाभ इति नायं संसृष्टेर्विषय इति चेत्-न ; व्यतिरेकस्य प्रकारान्तरेणापि दर्शनात् । यथा-

 नो कल्पापायवायोरदयस्यदलत्क्ष्याघारस्यापि शम्या


लोचनम्

रिरिति । मात्र हीति । हिशब्दस्तुशब्दस्यार्थे, रक्तस्त्वमित्यत्रेत्यर्थः । अन्य इति रक्त इत्यादिः । अन्यश्व अशोकसशोकादिः । नन्वेकं वाक्यात्मकं विषयमाश्रित्यैकविषय- स्वादस्तु सङ्कर इत्याशङ्कयाह-यदीति । एवंविधे वाक्यलक्षणे विषये विषय इत्ये- कत्वं विवक्षितं बोध्यम् । एकवाक्यापेक्षया यद्येकविषयत्वमुच्यते तन्न क्वचित्संसृष्टिः स्यात् , सङ्करेण व्याप्तत्वात् । ननूपमागर्भो व्यतिरेकः; उपमा च श्लेषमुखेनैवायातेति श्लेषोऽत्र व्यतिरेकस्यानुग्राहक इति सङ्करस्यैवैष विषयः । यत्र त्वनुग्राह्यानुग्राहकभावो नास्ति तत्रैकवाक्यगामित्वेऽपि संसृष्टिरेव; तदेतदाह-श्लेषेति । श्लेषबलानीतोपमा- मुखेनेत्यर्थः । एतत्परिहरति-नेति । अयं भावः-किं सर्वत्रोपमायाः स्वशब्देना- भिधाने व्यतिरेको भवत्युत गम्यमानस्वे । तत्राद्यं पक्षं दूषयति-प्रकारान्तरेणेति । उपमाभिधानेन विनापीत्यर्थः

 शम्या शमयितुं शक्येत्यर्थः। दीपवर्तिस्तु वायुमात्रेण शमयितुं शक्यते ।

बालप्रिया

त्वमिति शेषः । देव इति द्वयोर्विशेषणम् । यद्यप्यत्र सहरिः सहरिरिति द्वे उपात्ते, तथापि तयोरेकानुपूर्वीकत्वेनैकविषयकत्वमिति भावः । वृत्तिगतान्यपदे व्याचष्टे- रक्तेत्यादि । वाक्यलक्षणे वाक्यात्मके । एकत्वविवक्षायाः फलं दर्शयंस्तदित्यादि- वृत्यर्थं विवृणोति-एकवाक्येत्यादि । सङ्करस्यैवैष विषय इति । सङ्करस्य अनुग्राद्यानुग्राहकभावेन सङ्करस्य । संसृष्टेश्च नास्ति विषयापहार इत्याह-यत्रे- त्यादि । तदेतदाहेति । तामिमां शङ्कां दर्शयतीत्यर्थः । नेत्यादिपरिहारग्रन्थस्य भावं दर्शयति-अयमित्यादि । किमिति प्रश्ने । गम्यमानत्वे व्यङ्गयत्वे । उप- माभिधानेन उपमावाचकेन ।

 नो कल्पेति । सूर्यशतकस्थम् । उष्णत्विषः सूर्यस्यैव । निखिलद्वीप: दीपस्य दीप्तिरेव अन्यरूपा, सा प्रसिद्धा एव वर्तिः वः सुखयत्विति सम्ब- न्धः । अन्यरूपेत्यनेन दर्शितं दीप्तेर्वैधर्म्यं नो कल्पेत्यादिना कथ्यते । अदयरयेन प्रौढवेगेन दलन् क्ष्माधरो यस्य । वायोरिति कर्तरि षष्टी । गाढमुद्गीर्णा