पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२८
सटीकलोचनोपेतध्वन्यालोके


 अत्र हि प्रबन्धप्रवृत्तोऽपि श्लेषो व्यतिरेकविवक्षया त्यज्यमानो रसवि. शेष पुष्णाति । नात्रालङ्कारद्वयसन्निपातः, किं तर्हि ! अलङ्कारान्तरमेव श्ले. षव्यतिरेकलक्षणं नरसिंहवदिति चेत्-न । तस्य प्रकारान्तरेण व्यवस्थापन नात् । यत्र हि श्लेषविषय एव शब्दे प्रकारान्तरेण व्यतिरेकप्रतीतिर्जायते स तस्य विषयः । यथा-'स हरिनाम्ना देवः सहरिर्वस्तुरगनिवहेन' इ...


लोचनम्

भिप्रायेण भामहो न्यरूपयत्- 'तत्सहोक्त्युपमाहेतुनिर्देशान्त्रिविधम्' इत्युक्त्या न त्व. भ्यालङ्कारानुप्रहनिराचिकीर्षया । रसविशेषमिति विप्रलम्भम् । सशोकशब्देन व्य. तिरेकमानयता शोकसहभूतानां निर्वेदचिन्तादीनां व्यमिचारिणां विप्रलम्भपरिपोषका- णामवकाशो दत्तः । किं तर्हीति । सङ्करालङ्कार एक एवायम् ; तत्र किं त्यक्तं किंवा गृहीतमिति परस्याभिप्रायः। तस्येति सङ्करस्य । एकत्र हि विषयेऽलङ्कारद्वयप्रति- भोल्लासः सङ्करः । सहरिशब्द एको विषयः । सः हरिः, यदि वा सह हरिभिः सह-

बालप्रिया

हेतुश्लेष इति । हेत्वलङ्कारसहितः श्लेष इत्यर्थः । उक्तमुपपादयति-सहोक्ती- स्यादि । अनेनैवेति । भूयसा श्लेषानुग्राहकत्वाभिप्रायेणैवेत्यर्थः । इत्युक्त्या न्यरूप यदित्यन्वयः । तत्सहोक्तीति । तत् श्लिष्टं वचः । 'अनेनैवेत्येवकारव्यवच्छेद्यमाह- न त्वित्यादि। प्रकृतरसानुगुणालङ्कारान्तरविवक्षया गृहीतपूर्वस्थालङ्कारस्य त्यागः प्रकृतरसाङ्गं भवतीति प्रकृते व्यतिरेकस्य विप्रलम्भपोषकत्वं विवृणोति-सशोकश- ब्देनेत्यादि । व्यतिरेकमानयतेति । वक्तुरशोकाद्वयतिरेकं दर्शयतेत्यर्थः । अव- काशो दत्त इति । स्थितिर्दर्शितेत्यर्थः । वृत्तौ ‘श्लेष' इति । श्लेषोपमेत्यर्थः । 'नात्रेत्यादिः 'चेदित्यन्तः शङ्कग्रन्थः। तत्र किं तर्हीत्यिादेः भावमाह- -सङ्करेत्यादि। सङ्करेति । एकवाक्यानुप्रवेशसङ्करेत्यर्थः । वृत्तौ समाधत्ते-'नेत्यादि । प्रकारान्तरेण व्यवस्थापनमेव दशयति-'यत्रेत्यादि । भावं व्याचष्टे-एकत्रेत्यादि । अलङ्कारेति । अलङ्कारद्वयस्य या प्रतिभा प्रतीतिस्तस्या उल्लासः उदय इत्यर्थः । सङ्करः एकवा. क्यानुप्रवेशसङ्करः। स हरिरिति राजवर्णनम् । 'यद्यप्यनुपमचरितस्तथापि तव नाच्युतस्तुलां लभते इति पूर्वार्धम् । अत्रैकविषयकत्वं दर्शयति- -स हरीत्यादि। विषय इति। श्लेषव्यतिरेकयोरिति शेषः । सहरिर्नाम्नेत्यत्र स हरिरिति पदद्वय- मित्याह-सः हरिरिति । सः अच्युतः । नाम्ना हरिः हरिनामक इत्यर्थः । अश्ववाचिनो हरिशब्दस्य सहशब्देन समास इत्याशयेन द्वितीयं सहरिशब्दं व्याचष्टे- यदि वेत्यादि । यदि वेति । अथ चेत्यर्थः, अव्ययानामनेकार्थत्वात् । यद्वा- -यदि वेत्यपपाठः । हरिभिः अश्वैः । निवहेनेति हेतौ अभेदे वा तृयाया। अन्त्यपादे


 १. भामह, २.३, ४,