इत्यत्र उपमा श्लेषस्य ।
गृहीतमपि च यमवसरे त्यजति तद्रसानुगुणतयालङ्कारान्तरापेक्षया ।
यथा-
रक्तस्त्वं नवपल्लवैरहमपि श्लाध्यैः प्रियाया गुणै- |
कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः |
लोचनम्
णिके तु वाक्यार्थाभिनयेनोपाङ्गादिना । न तु सर्वथा नाभिनय इत्यलमवान्तरेण । ध्रुवशब्दश्च भावीर्ष्यावकाशप्रदानजीवितम् ।
रक्तो लोहितः । अहमपि रक्तः प्रबुद्धानुरागः । तत्र च प्रबोधको विभावस्तदीयप. ल्लवराग इति मन्तव्यम् । एवं प्रतिपादमाद्योऽर्थो विभावत्वेन व्याख्येयः। अत एव हेतुश्लेषोऽयम् । सहोक्त्युपमाहेत्वलङ्काराणां हि भूयसा श्लेषानुग्राहकत्वम् । अनेनैवा-
बालप्रिया
उपाङ्गादिनेति । अभिनय इत्यनुषज्यते । प्रबुद्धानुर।ग इति । प्रियाया गुणैरनुरक्तोऽहमुद्बुद्धानुराग इति तन्त्रादिना अर्थं इति भावः। कः प्रबोधक इत्यत्र व्याख्याताह-तत्र चेत्यादि । विभाव इति । उद्दीपनविभाव इत्यर्थः । तदीयेति । अशोकसम्बन्धीत्यर्थः । प्रतिपादमिति । द्वितीये तृतीये च पाद इत्यर्थः। विभावत्वेनेति । उद्दीपनविभावत्वेनेत्यर्थः । व्याख्येय इति । यतस्त्वां स्मरधनुर्मुक्ताः त्यक्तान्यपुष्पाः, शिलीमुखाः भ्रमरा आयान्ति, ततो मामपि तथा स्मरधनुर्मुक्ताः कामचापानिर्गताः शिलीमुखाः शरा आयान्ति । 'कान्तेत्यादि । यद्यप्यत्र कान्तापादतलेनाहतिः तव मुदे पुष्पविकासाय भवति, तद्वत्तथा कान्तापादतलाहतिः रतबन्धविशेषः मम मुदे सन्तोषाय भवतीति यथाश्रुतार्थः , तथापि स्वकान्तापादतलाहननेनाशोकस्य पुष्पविकासे सति नायकस्य सन्तोषो भवतीति यतस्तव मुदे ततो ममापि मुदे इति हेतुत्वेन व्याख्येय इति भावः।
१.त्रीणां स्पर्शास्त्रियविकसति वकुलस्सीधुगन्डूषसेकात् |
इति श्लोकोऽत्रानुसन्धेयः॥