पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२६
सटीकलोचनोपेतध्वन्यालोके


 अङ्गत्वेन विवक्षितमपि यमवसरे गृह्णाति नानवसरे । अवसरे गृहीति-

यथा-

उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा-
दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः ।

अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं
पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ।।


लोचनम्

त्ययं ग्रन्थकृत आशयः । तथा च ग्रन्थकार एवमग्रे दर्शयिष्यति । महात्मनां दूष- णोद्घोषणमात्मन एव दूषणमिति नेदं दूषणोदाहरणं दत्तम् । उद्दामा उद्गताः कलिका यस्याः। उत्कलिकाश्च रूहरुहिकाः । क्षणात्तस्मिन्नेवा- वसरे प्रारब्धा जृम्भा विकासो यया । जृम्भा च मन्मथकृतोडङ्गमदः । श्वसनोद्गमैर्वस- न्तमारुतोल्लासैरात्मनो लतालक्षणस्यायासमायासनमान्दोलनयत्नमातन्वतीम् । निः- श्वासपरम्पराभिश्चात्मन आयासं हृदयस्थितं सन्तापमातन्वतीं प्रकटीकुर्वाणाम् । सह मदनाख्येन वृक्षविशेषेण मदनेन कामेन च । अत्रौपमाश्लेष ईर्ष्याविप्रलम्भस्य भाविनो मार्गपरिशोधकत्वेन स्थितस्तच्चर्वणानिमुख्यं कुर्वन्नवसरे रसस्य प्रमुखीभावदशायां पुरःसरायमाणो गृहीत इति भावः । अभिनयोऽप्यत्र प्राकरणिके प्रतिपदम् । अप्राकर-

बालप्रिया

तथा चेति । कथं दर्शयिष्यतीत्यत्राह-महात्मनामित्यादि दत्तमित्यन्तम् ।

 उद्दामेति । रत्नावलीनाटिकास्थमिदम् । स्वपरिगृहीतां नवमालिकालतां दोह. दविशेषेण पुष्पितामवगतवतो वत्सराजस्य नर्मसचिवं प्रति वचनम् । 'अहमद्य इमामु. द्यानलतामन्यां नारीमिव पश्यन् देव्या मुखं कोपविपाटलद्युति करिष्यामीत्यन्वयः। मयि अन्यनारीमिय पुष्पितां मदीयलतां पश्यति, तत्पश्यन्त्या स्वपरिगृहीतमाधवी- लतायाः पुष्पोद्गमाभावेन - जनितकोपाया वासवदत्ताया मुखमाताम्रयुति यथा भविष्यति तथा करिष्यामीत्यर्थः । ध्रुवमिति निश्चये। उत्तरार्धस्य स्पष्टार्थकत्वं मन्यमानः पूर्वार्धं व्याचष्टे-उद्द्दामा इत्यादि । उद्दामाः उद्भटाः, यद्दा वह्नयः । नारीपक्षे व्याचष्टे-उत्कलिकाश्चेति । रुहरुहिकाः उत्कण्ठाः । आयासनमि: त्यस्यैव विवरणम्-आन्दोलनेति । वृत्तौ 'इत्यत्रोपमाश्लेषस्ये'त्युक्तं विवृणोति- अत्रेत्यादि । उपमासहितः श्लेष उपमाश्लेषः। ईर्ष्येति । वासवदत्तागतेयेर्ष्येत्यर्थः । भाविन इति । द्वितीयाङ्कावसाने वर्णयिष्यमाणस्येत्यर्थः । मार्गत्यादि । व्यञ्जकत्वेने- त्यर्थः । तच्चर्वणेति । सहृदयानामिति शेषः । 'अवसर' इत्यस्य व्याख्यानम्- रसस्येत्यादि । रसस्य रसचर्वणायाः । पुरःसरायमाणः पुरस्सरतुल्यः। नट- शिक्षार्थमाह-अभिनय इत्यादि। अप्राकरणिक इति । नारीरूपाप्रकृतार्थ इत्यर्थः ।